प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 204, कुल 274 में से
संदर्भ में पढ़ें१८६ प्रबोधचन्द्रोदयम् मनः— भगवति, शोकावेगदूषिते मनसि विवेक एवमनवकाशं लभते । सरस्वती— वत्स, स्नेहदोष एषः । प्रसिद्ध एवायमर्थः स्नेहः सर्वा- नर्थप्रभव इति । तथाहि— उष्यन्ते विषवल्लिवीजविषमाः क्लेशाः प्रियाख्या नरै- स्तेभ्यः स्नेहमया भवन्ति नचिराद्वज्राग्निगर्भाङ्कुराः । येभ्योऽमी शतशः कुकूलहुतभुग्दाहं दहन्तः शनै- र्देहं दोप्तशिखासहस्रशिखरा रोहन्ति शोकद्रुमाः ॥ १६ ॥ 'भगवति' इदं सरस्वतीसंबोधनम् । शोकावेगदूषिते–शोकसन्तप्ते । विवेकः– विचारः । अतिशयितशोकावेगयुते मम मनसि किं नित्यं किमनित्यमिति विचार एव नास्पदं लभतेऽतो न शक्नोमि विचारलभ्यं धैर्यं समालम्बितुमिति भावः । स्नेहदोषः–प्रेम्णोऽपराधः । त्वमात्मजनेषु बहुस्निह्यस्य त एवेदं तवाधैर्यमिति भावः । सर्वानर्थप्रभवः–सर्वेषां वधबन्धाद्यनर्थानां जन्मभूमिः । उष्यन्त इति० विषवल्लिवीजविषमाः विषलतावीजवन्मारकत्या भयङ्कराः क्लेशाः दुःखानि प्रियाख्याः पुत्रमित्रकलत्रादिनामभाजः प्रियाख्याः नरैः मनुष्यैः उष्यन्ते वपनकर्मा क्रियन्ते, नराणां यत्पुत्रादिषु प्रिय इति ज्ञानं तत्तेषां विषवल्लि- बीजवपनकल्पमिति, यतस्तेनैवास्य महतोऽनर्थप्ररोहस्य प्रभव इति । विषवल्लिबी- जत्वोक्त्या तीव्रदाहप्रदत्वं ध्वनितम् । तेभ्यः नरैरुप्तेभ्यः प्रियत्वाभिमानरूपविषवल्लि- बीजेभ्यः न चिरात् अतिशीघ्रम् स्नेहमयाः प्रेमरूपाः वज्राग्निगर्भाङ्कुराः वैद्युताग्निज्वा- लातुल्यसन्तापप्रदाः प्ररोहाः भवन्ति जायन्ते, किमपि बीजगुसमङ्कुरं जनयति, तदिदं प्रियत्वाभिमानबीजमुप्तं सदतिसन्तापकारणं ममत्वमुत्पादयति, कार्यकारणयोः । समानधर्मत्वस्वाभाव्याद् विषवल्लिबीजानां वज्राग्निगर्भाङ्कुरजनकत्वं न्यायप्राप्त- मित्यर्थः । तेभ्यः स्नेहमयाङ्कुरेभ्यः अमी त्वयाऽनुभूयमानाविलक्षणाः शनैः धीर- भावेन कुकूलहुतभुग्दाहम् तुषाग्निवत् देहम् स्वाश्रितजनशरीरम् दहन्तः सन्ताप- मन— भगवति, शोकावेगसे दूषित हृदयमें विवेकको जगह नही मिलती है । सरस्वती— बेटा यह तो स्नेहका दोष है, यह बात तो प्रसिद्ध ही है कि स्नेह सभी अनथोंका मूल है । क्योंकि— मनुष्य पुत्रदार आदि विषवल्लीकी तरह भयानक बीज बोते है उससे शीघ्र ही स्नेह रूप वज्राग्निगर्भ अङ्कुर पैदा होता है, जिन स्नेह अङ्कुरोंसे ज्वालायुक्त सहस्र शिखर वाले शोक रूप वृक्ष पैदा होते हैं जिनसे देह उस तरह कष्ट पाती है जैसे भूसेकी आगमे जल रही हो ॥ १६ ॥