प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 221, कुल 274 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः २०३ ( ततः प्रविशति श्रद्धा ) श्रद्धा—अये, अद्य खलु राजकुलमारोग्ययुक्तमालोक्य चिरेण मे पीयूषेणेव लोचने पूर्णे । असतां निग्रहो यत्र सन्तः पूज्या यमादयः । आराध्यते जगत्स्वामी वश्यैर्देवानुजीविभिः ॥ २ ॥ शान्तिः—( उपसृत्य ) अम्ब, कि मन्त्रयन्ती प्रस्थिता । श्रद्धा—( अये, अद्येत्यादि पठति ) शान्तिः—अथ मनसि कीदृशी स्वामिनः पुरुषस्य प्रवृत्तिः । श्रद्धा—यादृशी वध्यस्य ग्राह्यस्य भवति । राजकुलम्-विवेकपरिवारम् । आरोग्ययुक्तम्-स्वस्थम् । पीयूषेण-अमृतेन । राजकुलं स्वस्थं दृष्ट्वा तादृशी तृप्तिर्मदीयाभ्यां नयनाभ्यामासादिता यथाऽऽभ्याममृतसेकोऽनु- भूतः स्यादिति । असतामिति० यत्र यस्मिन् राजकुले असतां मोहादीनां निग्रहो दण्डः, यत्र च यमादयः सन्तः विवेकानुगतत्वेन पूज्याः सत्कारभाजः, यत्र जगत्स्वामी परमात्मा वश्यैः शमादिभिः करणैः देवानुजीविभिः परमात्मानुगामिभिः जीवैः कर्त्तृभिः आरा- ध्यते पूज्यते स्वाभिन्नत्वेन भावनमेवात्र जीवकर्त्तृकं परमात्मध्यानम् ॥ २ ॥ प्रस्थिता-चलिताऽसि, त्वमिति शेषः । मनसि-मनोविषये । प्रवृत्तिः-व्यवहारः । मनसा सह पुरुषः केन प्रकारेण वर्त्त- यतीत्यर्थः । वध्यस्य-वधार्हस्य । ग्राह्यस्य-गृहीतस्य । यथा निग्रहीतुं धृते समुचितो व्यवहारस्तथैव मनसि पुरुषस्य व्यवहारोऽस्तीति भावः । ( श्रद्धाका प्रवेश ) श्रद्धा—अये, आज राजकुलको स्वस्थ देखकर बहुत दिनोंके बाद मेरी आँखें अमृतसे पूर्ण-सी हो रही हैं । जहाँ दुष्टोंका निग्रह होता हो और यम नियम आदि सज्जनोंका सत्कार किया जाता है और जितेन्द्रिय तथा देवानुजीवी लोग जगत्पिताकी आराधना करते हैं ॥ २ ॥ शान्ति—मां, तुम क्या कहती जारही थीं । श्रद्धा—( 'अये, अद्य' इत्यादि दुहराती है ) शान्ति—अब मनके लिये स्वामीके हृदयमें क्या स्थान है ? श्रद्धा—जैसा अपराधी वध्य व्यक्तिके पकड़े जानेपर उसके लिये स्थान होता है ।