प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 241, कुल 274 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः १२१ ततस्तयोक्तम् । पुमानकर्ता कथमीश्वरो भवेत् क्रिया भवोच्छेदकरी न वस्तुधीः । कुर्वन्क्रिया एव नरो भवच्छिदः शतं समाः शान्तमना जिजीविषेत् ॥ १५ ॥ तन्मे नातिप्रयोजनं भवत्याः परिग्रहेण तथापि यदि कर्तारं भोक्तारं पुरुषं स्तुवन्ती भवती कियन्तं कालमत्र वस्तुमिच्छति । को दोषः । ब्रह्मणः स्वरूपलक्षणं प्रकटितम् । द्वैतध्वान्तमपास्येत्यनेन ब्रह्मप्राप्त्युपायं प्रतीङ्गितं कृतम्, अपुनर्भावायेत्यनेन ब्रह्मज्ञानफल मोक्ष इत्यभिहितम्, मोक्षस्यानित्यतां वारयितुं च शाश्वतमुदासीनमिति चोक्तमिति सर्वोऽपि वेदान्तप्रतिपाद्योऽर्थोऽत्र संक्षिप्य समावेशितो बोध्यः । शार्दूलविक्रीडितं वृत्तम् ॥ १४ ॥ पुमानिति० अकर्त्ता कर्त्तृत्वासंसृष्टः पुमान् पुरुषः कथम् ईश्वरः भवेत् ? तव मते ईश्वरत्वं कर्तृत्वनियमितमिति कर्तृत्वाभावे सतीश्वरत्वाभावोऽपि सिद्ध एवेत्यर्थः। नन्वे- वमीश्वराराधनं मुक्तये क्रियमाणमसङ्गतं स्यान्मुक्तिश्च नोपद्येतेत्यत्राह—क्रिया ज्यो- तिष्टोमादिरूपा भावना एव भवच्छेदकरी संसारनिवर्त्तिका, वस्तुधीः परमार्थसद्ब्रह्म- ज्ञानं न भवच्छेदकरी । 'अपामसोमममृता अभूम' इत्यादिना यागस्यैवामृतत्वप्रति- पादकतोक्तेः । (अतः) नरः जीवः भवच्छिदः संसारनिवर्त्तिकाः क्रियाः ज्योतिष्टो- मादिकाः कुर्वन् अनुतिष्ठन् एव शान्तमनाः समाहितचित्तः सन् शतं समाः शतं वर्षाणि जिजीविषेत् जीवितुमिच्छेत् । उक्तञ्च—'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः' इति ॥ १५ ॥ नातिप्रयोजनम्-नाधिकोऽर्थः । परिग्रहेण-स्वीकारेण, आश्रयदानेनेत्यर्थः । कर्त्ता- रम्-यज्ञादिकर्त्तारम् । भोक्तारम्-यज्ञफलभूतस्वर्गादिभोक्तारम् । स्तुवन्ती-प्रशं- इसपर उसने कहा— अकर्त्ता पुरुष ईश्वर कैसे होगा और वस्तुज्ञानसे ससारकी निवृत्ति किस प्रकार होगी ? अतः संसार निवर्त्तक कर्म करते हुए ही शान्त मनसे सौ वर्षों तक जीते रहनेकी कामना करनी चाहिये ॥ १५ ॥ अतः मुझे आपके परिग्रहकी आवश्यकता नही है, फिर भी यदि आप कर्त्ता और भोक्ता पुरुषकी स्तुति करती हुई किञ्चित्काल पर्यन्त यहाँ वास करना चाहे तो कोई दोष नही है ।