प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 47, कुल 274 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः २६ रागादिभिः स्वरसचारिभिरात्तकान्ति- र्निर्भर्त्स्यमान इव मानधनः कृशाङ्गः । मत्या नितान्तकलुषीकृतया शशाङ्कः कान्त्येव सान्द्रतुहिनान्तरितो विभाति ॥ २३ ॥ तन्न युक्तमिहास्माकमवस्थातुम् । ( इति निष्क्रान्तौ ) विष्कम्भः ( ततः प्रविशति राजा विवेको मतिश्च ) रागादिभिरिति० स्वरसचारिभिः स्वेच्छया व्यवहारिभिः रागादिभिः रागद्वेषलो- भादिभिः निर्भर्त्स्यमानः तिरस्क्रियमाण इव आत्तकान्तिः हृततेजाः कृशाङ्गः दुर्बलतनुः मानधनः अभिमानमात्रविभव इव नितान्तकलुषीकृतया अत्यन्तपीडितया कान्त्या स्वप्रभया रागादिभिरिति शेषः, मत्या स्वस्त्रिया सान्द्रतुहिनान्तरितः निबिडनीहारा- वृतः शशाङ्कः चन्द्रः कान्त्या स्वप्रभया इव विभाति। अयमाशयः-यथा नीहारावृतश्चन्द्र- माः स्वकान्त्या विभाति दुर्बलः पूर्णप्रकाशविकलश्च तथैवाय विवेकोऽपि यथेच्छाचारि- रागादिभिः हृतप्रभो निन्दित इव कथञ्चित्थमपि मानं रक्षन् पूर्णरूपेण स्वप्रभावस्थाप- नासमर्थतया कृशकाय इवोपलक्ष्यमाणे मत्या दुर्बलदेहलतया युक्तो विभातीति । विवेकोऽपि नीहाररूपयाऽविद्ययाऽऽव्रियत इति ध्वनिः। शेषमतिस्पष्टम्। वसन्त- तिलकं वृत्तम् , तल्लक्षणं यथा—'उक्त वसन्ततिलकं तभजा जगौ गः' इति ॥ २३ ॥ तत्—तस्मात् , विवेकसंनिधानात् । अस्माकम्-कामरत्यादिमोहपक्षीयाणाम् ! एतेन विवेकसंनिधाने कामरत्योर्निष्प्रभावत्वं व्यञ्जितम् । विष्कम्भः-मिश्रविष्कम्भः, तथा च लक्षणम्— अङ्कशेषकथांशानां भूतानां भाविनामपि । संक्षेपेण समस्तानां विष्कम्भः सूचनात्मकः ॥ रागादि यथेच्छाचारियोंने इसकी कान्ति हरली हैं, उपेक्षित होकर यह अभिमानी दुर्बल हो रहा है, इसकी सहचारिणी मति भी कलुषित हो रही है, इस तरह यह घने कुहरेमे पड़े हुए चन्द्रमाके—समान प्रतीत होता है ॥ २३ ॥ इस समय हमलोगोंका यहां रहना अच्छा नहीं है । ( दोनोंका प्रस्थान ) विष्कम्भ ( राजा विवेक तथा मतिका प्रवेश )