प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 75, कुल 274 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ५७ दम्भः—तावपि राज्ञो महामोहस्याज्ञयाऽत्रैव वर्तेते । तयोर्विना क्षण- मपि न तिष्ठामि । आर्यमिश्रैः पुनः केन प्रयोजनेनात्र प्रसादः कृतः । अहंकारः—वत्स, मया महामोहस्य विवेकसकाशादत्याहितं श्रुतम् । तेन तद्वृत्तान्तं प्रत्येतुमागतोऽस्मि । दम्भः—स्वागतमेवार्यस्य । यतो महाराजस्यापीन्द्रलोकादत्रागमनं श्रूयते । अस्ति च किंवदन्ती यद्देवेन वाराणसी राजधानी वस्तुं निरूपितेति । अहंकारः—पुनः किं वाराणस्यां सर्वात्मना मोहस्यावस्थानकारणमिति । दम्भः—आर्य, ननु विवेकोयरोध एव । तथाहि— तौ-तृष्णालोभौ । तयोः-पित्रोः तृष्णालोभयोः, अत्र विनापदयोगे कथं षष्ठीति चिन्त्यम् । आर्यमिश्रैः-पूज्यैर्विद्वद्भिश्च, मिश्रपदस्य पण्डितपरत्वं प्रसिद्धम् । केचित्तु षड्दर्शनज्ञो मिश्र इत्याहुः । प्रसादः-स्वागमनेनानुग्रहः । विवेकसकाशात्-विवेकात् । अत्याहितम्-महाभीतिः, उच्छेदोरूप इत्यर्थः । अयं बिन्दूपन्यासो वेदितव्यः, बिन्दुलक्षणं यथा—'अवान्तरार्थविच्छेदे विन्दुरच्छेदकारणम्' इति । अत्र दम्भाहङ्कारयोः संवादेन कथाविच्छेदे पुनरविच्छेदहेतुर्महामोहस्य विवेक- सकाशादत्याहितं श्रुतमिति पुनः कथानुसरणरूपो बिन्दुः । प्रत्येतुम्-अवधारयितुम् । महाराजस्य-महामोहस्य । स च विषयेष्वासक्तिविशेषहेतुरहं ममाभिमानरूपः, तथोक्तं तत्त्वकौमुद्याम्—'अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च यथासंख्यं तमोमोह- महामोहातामिस्रान्धतामिस्रसंज्ञकाः। यद्यपि शब्दादिषु पञ्चसु दिव्यादिव्यतया दश- विधेषु विषयेष्वनुरक्तिरूपतया दशविधो महामोहस्तथापि विषयभेदाद्दशविधोऽपि वस्तुतस्त्वेक एवेत्यवधारणीयम्' । अत्र-वाराणस्याम् । किंवदन्ती-जनश्रुतिः । वस्तुं निरूपिता-आवासस्थानत्वेन वृता । सर्वात्मना-सर्वथा, अवस्थानकारणम्-आवासहेतुः। विवेकोपरोधः-विवेकस्य परिपन्थिनः उपरोधनम् निरोधनम् । दम्भ—वे भी मोहकी आज्ञासे यहीं हैं । उनके बिना मैं क्षणभर भी नही रह सकता हू । आपने किस प्रयोजनसे यहाँ पधारनेकी कृपा की है ? अहङ्कार—वत्स, मैने सुना कि विवेकसे महामोहको महाभय उपस्थित है, इसीको ठीकसे जानने आया हू ! दम्भ—स्वागत है आपका ! महाराज भी इन्द्र लोकसे यहाँ आरहे हैं ऐसा सुननेमें आया है । यह भी अफवाह है कि महाराजने काशीको ही अपने वासके लिये चुना है । अहङ्कार--सर्वथा काशीमें बसनेके लिये मोहको क्या कारण मिला ? दम्भ—आर्य, विवेकको रोकना ही । क्योंकि—