भारतकोश
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

महाकवि भास द्वारा

DevanagariHindipublished178 पृष्ठ

पृष्ठ 100, कुल 178 में से

संदर्भ में पढ़ें
पृष्ठ 100

( 97 ) अहा, अकस्मात् स्वेच्छा से ही मुझे महान् फल मिल गया । आप कहिए, ये कौन महानुभाव है ? (४) मूल देवकुलिकः—अयं खलु तावत्त सन्निहितसर्वरत्नस्य विश्वजितो यज्ञस्य प्रवर्तयिता प्रज्वलितधर्मप्रदीपो दिलीपः । भरतः—नमोऽस्तु धर्मपरायणाय । अभिधीयतां कस्तावदत्रभवान् ? देवकुलिकः—अयं खलु तावत् संवेशनोत्थापनयोरनेकब्राह्मणजन- सहस्रप्रयुक्तपुण्याहशब्दरवो रघुः । भरतः—अहो बलवान् मृत्युरेतामपि रक्षामतिक्रान्तः । नमोऽस्तु ब्राह्मणजनावेदितराज्यफलाय । अभिधीयतां कस्ताव- दत्रभवान् ? देवकुलिकः—अथ खलु तावत् प्रियावियोगनिर्वेदपरित्यक्तराज्यभारो नित्यावभृथस्नानप्रशान्तरजा अजः । भरतः—नमोऽस्तु श्लाघनीयपश्चात्तापाय । (दशरथस्य प्रतिमामव- लोकयन् पर्याकुलो भूत्वा) भोः ? बहुमानव्याक्षिप्तेन मनसा सुव्यक्तं नावधारितम् । अभिधीयतां कस्तावदत्रभवान् ? देवकुलिकः—अयं दिलीपः । भरतः—पितृपितामहो महाराजस्य । ततस्ततः । देवकुलिक.—अत्रभवान् रघुः । भरतः—पितामहो महाराजस्य । ततस्ततः । देवकुलिकः—अत्रभवानजः । भरतः—पिता तातस्य । किमिति किमिति । देवकुलिक —अयं दिलीपः, अयं रघुः, अयमजः । भरतः—भवन्तं किञ्चित् पृच्छामि । धरमाणानामपि प्रतिमाः स्थाप्यन्ते ? देवकुलिकः—न खलु, अतिक्रान्तानामेव । भरतः—तेन ह्यापृच्छे भवन्तम् । देवकुलिकः—तिष्ठ ।

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक) · पृष्ठ 100, कुल 178 में से · BharatKosha