प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)
Pratimanatakam of Mahakavi Bhasa with Commentary
महाकवि भास द्वारा
पृष्ठ 156, कुल 178 में से
संदर्भ में पढ़ें[Page 169]
श्रुत इह स च मैथिलीप्रणाशो गुण इव बह्वपराद्धमायुषा मे ॥ (८) प्रतिहारी-(सुमन्त्रमुद्दिश्य) एत्वेत्वार्यः । एष भर्ता । उपसर्पत्वार्यः सुमन्त्रः-(उपसृत्य) जयतु कुमारः । भरतः-तात ! अपि दृष्टस्त्वया लोकाविष्कृतपितृस्नेहः । अपि दृष्टं द्विधाभूतमरुन्धतीचारित्रम् । अपि दृष्ट त्वया निष्कारणा- वहितवनवासं सौभ्रात्रम् । (सुमन्त्रः सचिन्तस्तिष्ठति) प्रतिहारी-भर्तृदारकः खल्वार्यम् पृच्छति । सुमन्त्रः-भवति ! किं माम् ? भरतः-(स्वगतम्) अतिमहान् खल्वायासः । सन्तापाद् भ्रष्ट- हृदयः । (प्रकाशम्) अपि मार्गात् प्रतिनिवृत्तस्तत्रभवान् ? सुमन्त्रः-कुमार ! त्वन्नियोगाद् रामदर्शनार्थम् जनस्थानं प्रस्थितः कथमहमन्तरा प्रतिनिवर्तिष्ये । भरतः-किन्नु खलु क्रोधेन वा लज्जया वात्मानं न दर्शयन्ति ? सुमन्त्रः-कुमार ! कुतः क्रोधो विनीतानां लज्जा वा कृतचेतसाम् । मया दृष्टं तु तच्छून्यं तैर्विहीनं तपोवनम् ॥ (९) भरतः अथ क्व गता इति श्रुताः । सुमन्त्रः-अस्ति किल किष्किन्धा नाम वनौकसां निवासः । तत्र गता इति श्रुताः । भरतः-हन्त ! अविज्ञातपुरुषविशेषाः खलु वानराः दुःखिता प्रति- वसन्ति । सुमन्त्रः-कुमार ! (तिर्यग्योनयोऽप्युपकृतमवगच्छन्ति ।) भरतः-तात ! कथमिव । सुमन्त्रः-सुग्रीवो भ्रंशितो राज्याद् भ्रात्रा ज्येष्ठेन वालिना । हृतदारो वसञ्शैले तुल्यदुःखेन मोक्षितः ॥ (१०) भरतः-तात ! कथं तुल्यदुःखेन नाम ?