भारतकोश
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

महाकवि भास द्वारा

DevanagariHindipublished178 पृष्ठ

पृष्ठ 72, कुल 178 में से

संदर्भ में पढ़ें
पृष्ठ 72

( 71 )

सल्या – (सरुदितम्) अलमिदानीं महाराजोऽतिमात्रं सन्तप्य परवशमात्मानं कर्तुम् । ननु सा तौ च कुमारौ महाराजस्य समयावसाने प्रेक्षितव्या भविष्यन्ति । राजा – कौ त्व भोः ! कौसल्या – अस्रिग्धपुत्रप्रसविनी खल्वहम् । राजा – कि कि सर्वजनहृदयनयनाभिरामस्य रामस्य जननी त्वमसि कौसल्या ? कौसल्या – महाराज सैव मन्दभागिनी खल्वहम् । राजा – कौसल्ये ! सारवती खल्वसि । त्वया हि खलु रामो गर्भे धृतः ! अहं हि दुःखमत्यन्तमसह्यं ज्वलनोपमम् । नैव सोढुं न संहर्तुम् शक्नोमि मुषितेन्द्रियः ॥ (६) राजा – (सुमित्रां विलोक्य) इयमपरा का ? कौसल्या -- महाराज ! वत्सलक्ष्मण- (इत्यर्धोक्ते) राजा – (सहसोत्थाय) क्वासौ क्वासौ लक्ष्मणः ? न दृश्यते । भोः कष्टम् । (देव्यौ ससम्भ्रमुत्थाय राजानमवलम्बेते) कौसल्या – महाराज ! वत्सलक्ष्मणस्य जननी सुमित्रेति वक्तुं मयोपक्रान्तम् । राजा – अयि सुमित्रे ! तवैव पुत्रः सत्पुत्रो येन नक्तन्दिवं वने । रामो रघुकुलश्रेष्ठश्छायेवेवानुगम्यते ॥ (१०) शब्दार्थ- यथानिर्दिष्ट = जैसा कहा गया है । नयनाभिराम = नेत्रों को सुन्दर लगने वाले । सलक्षणसर्वगात्र = अच्छे लक्षणो से युक्त पूरे शरीर वाले । साध्वि = हे पतिव्रते । पतिस्थितचित्तवृत्ते = पति मे विद्यमान मन की भावना वाली । बत = हाय । तनूजाः = सन्तान । चित्रम् = आश्चर्यजनक । विमुक्तस्नेहम् = प्रेम को छोड़ने वाले । गर्हितः = निन्दित । अयशोभाजनं = बुराई का पात्र । प्रयच्छत = दो । मे = मुझे । प्रतिवचनम् = उत्तर । कौसल्या- मातः = राम । सत्यसन्ध = अवितथ प्रतिज्ञा वाला । जितक्रोध = कोपावेग को