भारतकोश
प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)

Pratimanatakam of Mahakavi Bhasa with Commentary

महाकवि भास द्वारा

DevanagariHindipublished178 पृष्ठ

पृष्ठ 86, कुल 178 में से

संदर्भ में पढ़ें
पृष्ठ 86

तृतीय अङ्क ) मूल (ततः प्रविशति सुधाकारः) सुधाकारः—(सम्मार्जनादीनि कृत्वा) भवतु इदानीं कृतमत्र कार्य- मार्यसम्भकस्याज्ञप्तम् । यावन् मुहूर्तम् स्वप्स्यामि । (स्वपिति) (प्रविश्य) भटः—(चेटमुपगम्य ताडयित्वा) अंश्चो दास्याः पुत्र ! किमिदानीं कर्म न करोषि ? (ताडयति) सुधाकारः—(बुद्ध्वा) ताडय मां ताडय माम् । भटः—ताडिते त्वं कि करिष्यसि । सुधाकारः—अधन्यस्य मम कार्तवीर्यस्येव बाहुसहस्रं नास्ति । भटः—बाहुसहस्रेण किं कार्यम् । सुधाकारः—त्वां हनिष्यामि । भटः—एहि दास्याः पुत्र ! मृते मोक्ष्यामि । (पुनरपि ताडयति) सुधाकारः—(रुदित्वा) शक्यमिदानी भर्तः ! मेऽपराधं ज्ञातुम् । भटः—नास्ति किलापराधो नास्ति । ननु मया सन्दिष्टो भर्तृदारकस्य रामस्य राज्यविभ्रष्टकृतसन्तापेन स्वर्गं गतस्य भर्तुर्दशरथस्य प्रतिमागेहं द्रष्टुमद्य कोसल्यापुरोगैः सर्वैरन्तःपुरैरिहागन्तव्य- मिति । अत्रेदानीं त्वया किं कृतम् ? सुधाकारः—पश्यतु भर्ता अपनीतकपोतसन्दानकं तावद् गर्भगृहम् । सौधवर्णकदत्तचन्दनपञ्चाङ्गुला भित्तयः । अवसक्तमाल्य- दामशोभीनि द्वाराणि । प्रकीर्णा वालुकाः । अत्रेदानीं मया किं न कृतम् ? भटः—यद्येवं विश्वस्तो गच्छ । यावदहमपि सर्वम् कृतमित्यमात्याय निवेदयामि ।