प्रतिमानाटकम् (महाकवि भास - प्रतिमा-दर्शन एवं सम्पूर्ण ७ अङ्क सान्वय सटीक)
Pratimanatakam of Mahakavi Bhasa with Commentary
महाकवि भास द्वारा
पृष्ठ 92, कुल 178 में से
संदर्भ में पढ़ेंभरत—क्या उनके जीने की आशा है ? सूत—भगवान् ही जाने । भरत—मेरा हृदय धड़क रहा है, रथ चलाओ । (१) सूत—जैसी महाराज की आज्ञा । (रथ चलाता है) (२) मूल भरतः— (रथवेगं निरूप्य) अहो नु खलु रथवेगः । एते ते, द्रुमा धावन्तीव द्रुतरथगतिक्षीणविषया नदीवोद्वृत्ताम्बुर्निपतति मही नेमिविवरे । अरव्यक्तिर्नष्टा स्थितमिव जवाच्चक्रवलय रजश्चाश्वोद्धूतं पतति पुरतो नानुपतति ॥ (२) सूतः—आयुष्मन्, सोपस्नेहतया वृक्षाणामभितः खल्वयोध्या भवितव्यम् । भरतः—अहो नु खलु स्वजनदर्शनोत्सुकस्य त्वरता मे मनसः । सम्प्रति हि, पतितमिव शिरः पितुः पादयो. स्निह्यतेवास्मि राज्ञा समुत्थापित त्वरितमुपगता इव भ्रातर. क्लेदयन्तीव मामश्रुभिर्मातरः । सदृश इति महानिति व्यायतश्चेति भृत्यैरिवाह स्तुतः सेवया परिहसितमिवात्मनस्तत्र पश्यामि वेष भाषां च सौमित्रिणा ॥ (३) सूतः— (आत्मगतम्) भो ! कष्टम् यदयमविज्ञाय महाराजविनाश- मुदर्के निष्फलामाशां परिवहन्नयोध्यां प्रवेक्ष्यति कुमारः । जानद्भिरप्यस्माभिर्न निवेद्यते । कुतः, पितुः प्राणपरित्यागं मातुरैश्वर्यलुब्धताम् । ज्येष्ठभ्रातुः प्रवासं च त्रीन् दोषान् कोऽभिधास्यति ॥ (४) (प्रविश्य) भटः — जयतु कुमारः । भरतः—भद्र ! कि शत्रुघ्नो मामभिगत । भटः—अभिगतः ख वर्तते कुमारः । उपाध्यायास्तु भवन्तपाहुः ।