भारतकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 113, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 113

६४ | पृथ्वीराजविजयमहाकाव्यम् . नासापुटाननभुवो भुवनत्रयस्य संबन्धिनस्सममिव(l.7) भ्रमतस्समीरान् . स्पर्धावशादनुगतेन ततो हयेन प्रातिष्ठत प्रजविना नरलोकपा(l.8)लः ॥ नासापुटाभ्यामाननाच्च भूयेषां ताँस्त्रिभुवनस्य सम्बन्धिन इव समं भ्रमतो वायूनस्प(l.9)र्धावशादिवानुगच्छता वेगवताश्वेन स राजा प्रस्थान- मकरोत् ॥ 75. मध्येतमो रजसि दू(l.10)रमुदस्यमाने रत्नांशुभिर्हरिरराजत सत्वराशिः . द्रष्टा विमुक्तविकृतिप्रकृतिर्विशुद्धं (l 11) स्वं पौरुषं दधदशोभत वासुदेवः ॥ तमसो मध्ये मध्येतमः अन्धकारमध्ये · रजस्युदस्य(l.12)माने उत्था- प्यमाने रत्नराश्मिभिर्हर्योशोभत सत्वस्य बलस्य राशिः तथा वासुदेवोशो- (l.13)भत . कीदृक् द्रष्टा पश्यन् तथा विमुक्तविकृतिः प्रकृतिर्यस्य तथा स्वं पौरुषं दधानः तथा(l.14) सत्वराशिर्धैर्यस्थानम् अथ च ह्········तमो- गुणे·········सत्वगुणस्य(l.15)··········निर्विकारप्रकृतिः वासु- देवश्च ॥ 76. चन्द्रोदये गगनचुम्बितया स्थितत्वा(l.16)- दृष्ष्ट्वा हयं जविनमात्मसुतभ्रमेण . पश्चादिवागतवतो जलधेस्समीपे कल्लोलशब्द(l.17)मवनीरमणो न्यशाम्यत् ॥ चन्द्रोदये पश्चादागतवतो लवणसिन्धोस्तरङ्गशब्दं स राजा(l.18)श्रृ- णोत् . आगमने हेतुरुत्प्रेक्ष्यते वेगवन्तं वाजिनं दृष्ट्वात्मसुत उच्चैश्श्रवा इति भ्रमेण(l.19) . भ्रमः कुतो जात इत्याह आकाशव्यापित्वेन स्थितत्वात् ॥ 77. 1 Ms. तांस्त्रि°.