भारतकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 130, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 130

पञ्चमः सर्गः. १११ चन्द्रकलाष्षोडश सूर्यकला द्वादश वह्निकला दशेति(l.10)प्रतिवक्त्रमष्टात्रिंश- द्भवन्ति अष्टात्रिंशत्संख्यास्ता धामत्रयीकलाः पंचमुखस्येश्वरस्य प्रतिमु(l.11)खं वर्तमानत्वात्पञ्चभिर्गुणिता भवन्तीति नवत्यधिकं शतं भवन्तीति क्रियोत्प्रे- क्षेयम् सूचनाक्रि(l.12)यायास्संभावनात् ॥ ४२. तं प्रासादमसौ चक्रे पुष्करे व्योमवाससः . भक्त्या त्यक्तोत्तरासंगः कैला(l.13)स इव भाति यः ॥ असौ राजा पुष्करतीर्थे हरस्य तं प्रासादं चक्रे यो भक्त्या त्यक्तोत्त- रासंगः कैला(l.14)स इव भाति. त्यक्तोत्तरादिक्संगश्च ॥ द्रव्योत्प्रेक्षा ॥ कैलासस्य द्रव्यत्वात् ॥ ४३. धर्मस्येव(l.15) नर्वः [सर्गो] स्थिति — — ~ - ~ - . सिंहराज[: सुतस्त?]स्य संहार इव मान्मथः ॥ यो धर्मस्येव(l.16) सर्ग इत्याद्यन्वयो योज्यः . लावण्यातिशयेनं राज- राजिकादायि(?) ... [सं]हारो[त्प्रे]क्षणम् ॥(l.17) सिद्धात्मिकोत्प्रेक्षा ॥ स- र्गादयो घबन्ताः तेषां कृदभिहितो र्भावो द्रव्यं............... [द्र]व्यवद्भा- (l.18)वेन सिद्धत्वात् ॥ ४४. पुष्करे पुष्कलसुधं प्रासादं सोपि निर्ममे . श्वेतो गुँण इवोपास्ते यो दे(l.19)वं शशिशेखरम् ॥ श्वेतो र्गुण इव यो हरं सेवते तं प्रासादं सुधासितं स पुष्करे कृतवान् ॥ (l.20) उपमालङ्कारसङ्करोत्प्रेक्षा ॥ श्वेतर्गुणस्य साधारणत्वेनोपमा भवति संभावनायां तू(l.21)त्प्रेक्षा ॥ ४५. सिंहराजं तमालोक्य सिंहराजमिवापरम् . धर्मस्य त्रिपदीच्छेदी ननाम(l.22) कलिकुञ्जरः ॥ 1 Ms. चन्द°. 2 Ms. नवम्य°. 3 Ms. ᵒवासदः. 4 Ms. ᵒनव°. 5 Ms. ᵒग्यण. 6 Ms. ᵒवं. 7 Ms. ᵒब्य. 8 Sic. Read गण. 9 Ms. ᵒज्ञत°.