पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 145, कुल 330 में से
संदर्भ में पढ़ेंप्रमाणं जानाति विनियोगं च वेत्ति स ईश्वरं सर्वज्ञं नापेक्षते ॥ लौकिके मीमांसाव्यवहारसमारोपः ॥ १०६. सपक्षे ददृशे नांस्ते विपक्षे यज्जडात्मनि . तत्प्रतापाग्निमान्भूभृद्धेतौ धूमेन्वमायि यः ॥ जनेन सं पक्षे स्वाश्रिते विषये यद्ददृशे स्वपक्षस्योपकारं कुर्व- न्यदृष्ट इत्यर्थः जडात्मनि विपक्षे शत्रौ यन्नास्ते अपकारप्रवृत्त(l.4) एवाभू- दित्यर्थः तत्तस्माद्धेतावायुधे खङ्गे सत्यां भूभृत्प्रतापाग्निमाननुमितः . धूमे इ(l.5)ति हेतोरारोपः कालत्वेन धूमानुकारात् स पक्षे महानसे दृष्टः विपक्षे जलादौ न दृष्टः(l.6) ततो भूभृत्पर्वतो धूमे हेतौ कारणे लिङ्गे सत्यग्निमान- नुमीयते ॥ लौकिके तर्कव्यवहार(l.7)समारोपः ॥ १०७. अहार्यलङ्घनैस्त्यक्तरसास्वादैस्सदूषणैः . येन पीनसितावस्थां कीर्त्ति(l.8)रत्याजि वैरिणाम् ॥ येन राज्ञा शत्रूणां कीर्त्तिः [पीन]सितां चावस्थां [त्या]जिता[तीव] ल(l.9)घुर्मलिना च कीर्त्तिः कृतेत्यर्थः यतः अहार्याणां पर्वतानां [ल]ङ्घनै- रारोहावरोहैस्त्यक्तो(l.10) रसाया भूमेरास्वादो यैः कारणभूतैः सह दूषणेन दोषेण यानि तैः. अहार्यैरपरि(l.11)हार्यैश्च लङ्घनैर्भोजनविच्छेदादिभिः त्यक्तो रसा[नां मधु]रादीनामास्वादो येषु तथा(l.12) तच्छोभनभूषणैरां मरीचादियैषु तैर्हेतुभिर्भिषजा परिमितों(?) प्रतिश्यायवत्त्वं तस्या अव- (l.13)······जते . गतिबुद्धीति नियमात्कीर्त्तिशब्दस्य कर्मत्वम् . तस्य चात्याँजीत्यत्र कर्मण्यत्पन्ने(l.14)·············· ॥ लौकिके आयुर्वेद(l.15)- १०८. Lines 16 to the end of page missing
1 Ms. °शेनं°. 2 Ms. राजा crossed after स. 3 Ms. °रकंकुं°. 4 Ms. °दिकै. 5 Ms. Sic. Is it सति ? 6 Ms. °त्पर्वतश्च crossed after °भृ°. 7 Ms. हेतेरा°. 8 Ms. पनीसि°. 9 Ms. °वस्या. 10 Ms. Sic. Is it सङ्ग्रोजनदूषण्यं ? 11 Sic. Read पीनसिता. 12 Ms. °तिबोधेति. Pāṇini, 1.4.52. 13 Ms. °त्यत्जी°.