पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 164, कुल 330 में से
संदर्भ में पढ़ेंपञ्चमः सर्गः . १४५ हठेन पादपतनं यत्र रामासु सागसाम् . कोपाग्निं दीपयति च प्रसादान्बु च वर्षति ॥ रामासु सापराधनां संबन्धिं१ हठेन प्रणमनं कर्तृ कोपाग्निं ज्वलय- ति हर्षजलं च वर्षति . प्रसादे इति वा पाठः ॥ भावसन्धिः ॥ असूयौत्सु- क्ययो रत्यङ्गयोर्भावात् ॥ १८५. लटभाभिस्स्वयं दत्तं विलासिषु नवंक्षतम्३ . दृष्टं विस्मृत्य रत्यन्ते यत्रैति क्षणविघ्नताम् ॥ कामिनां तरुणीभिस्स्वयमेव दत्तं२ तदेव विस्मृतं सद्रत्यन्ते दृष्टं विघ्नतामेति ॥ भावोदयः ॥ असूयोदयात् ॥ १८६. यस्मिन्पराङ्मुखी रक्ता साश्रुस्स्मेरा च योषिताम् . सुसखीसाक्षिकं दृष्टिर्भवत्यानमति प्रिये ॥ रमणीनां प्रिये प्रणमति सति दृष्टिः पराङ्मुखत्वादिसहिता४ स्निग्ध- सखीसाक्षिकं भवति ॥ भावशबलता ॥ अमर्षासूयानिर्वेदहर्षाणां शब- लत्वात् ॥ १८७. भ्रूभङ्गभङ्गिभिस्त्रीणां येनाप्ताश्चापराजयाः . कामस्य कामिभिर्यत्र कृतस्तस्य पराजयः ॥ येन कामेन भ्रूभङ्गविच्छित्तिभिर्हे५तुभिश्चापानां राजयः पङ्क्तयः प्राप्ताः तस्य कामस्य कामिभिः पराजयः कृतः ॥ अनुप्रासयमकयोस्सं- सृष्टिः ॥ १८८. • केलीकोकिलकाकल्याः कल्पाः कान्तागिरो जये . यत्र कामयमानानां नानाङ्गं सुवते सुखम् ॥ 1 Ms. संबधि. 2 Ms. दत्तुं. 3 Is it नखं° ? 4 Ms. ॰खादि॰. 5 Ms. ॰भिहे॰. १६