पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 172, कुल 330 में से
संदर्भ में पढ़ेंषष्ठः सर्गः . १५३ नृपः(l.1) पताकासिचयप्रपञ्च- सञ्चारिचित्राम्बरभूषणायम् • अलोठयित्वैव नवीकृतायां पु(l.2)र्यामपूर्वां श्रियमैक्षते स्म ॥ ध्वजवस्त्राण्येव संचारि चित्रं यस्य तदम्बरं भूषणं य(l.3)स्यांमत ऍवालोठयित्वैव लोंठनेन विनैव नवीकृतायां नगर्यां स शोभां दृष्टवान्. शत्रुमारणा(l.4)न्नगर्या नवीकरणम् ॥ 18. महोत्सवः क्ष्मापतिना सुलग्ने न ज्ञायते कुत्र स सूत्रितोभूत् .(l.5) अद्यापि यो रुद्धतुरुष्कयात्रं⁵ तथैव सर्वामवनीमुपास्ते ॥ योद्यापि म्लेच्छानां यात्रां रुद्ध(l.6)वान्सर्वां भुवं च व्याप्नोति स महोत्सवो राज्ञा कस्मिन्नपि शोभने स्थिरे लग्ने प्रारब्धोभूत् • शोभन(l.7)- लग्ने एवारब्धस्य स्थैर्योपपत्तेः ॥ • 19• व्यापादि यस्मिन्नपवित्रसेना स भूमदेशश्चिरकाल(l.8)मासीत् • कङ्कालिकाकालिशृगालमाला- मेलापकोलाहलकेलिरौद्रः ॥(l.9) सा चाण्डालसेना यत्र मारिता तत्स्थानं कङ्कादिरौद्रं जातम् ॥ 20. विशुद्धिहेतोरथ तस्य(l.10) राजा घ्राणेन्द्रियाकास्मिकरौरवस्य • अकारयत्कीर्त्तिपटीपिनद्ध- क्षीरोदनशङ्कर(l.11)णं तटाकम् ॥
1 Ms. °लौठं. 2 Ms. °स्यांम°. 3 Ms. ऎवा°. 4 Ms. °लाठ°. 5 Ms. °त्रां. We take it as an adverb. 6 Ms. °सीत्क°. २०