पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 182, कुल 330 में से
संदर्भ में पढ़ेंषष्ठः सर्गः . १६३ ज्येष्ठानुरागाख्यनिधानकोशे मुद्रानिवेशो निहितो हृदीव ॥ ततः कौसल्याया हृदि सू(1.1)क्ष्मं मेघनादपातितशक्तिव्रणचिह्नं² लक्षि- तम् . अतस्संभाव्यते श्रीरामविष(1.2)ये स्नेहनामनिधिकोशे न्यस्तो मुद्रा- निवेश इव ॥ 56. किमेतदित्याकुलया स्पृशन्त्या पृष्टो(1.3)पि मात्रा न स किंचिदूचे . द्रोणाचलेन्द्रोद्धरणोद्धुरोपि नेमे च लज्जातिभरात्कपीन्द्रः ॥(1.4) व्रणं स्पृशन्त्या व्याकुलया मात्रा किमेतदिति पृष्टोपि लक्ष्मणो न किंचिदुक्तवान् व्रण(1.5)रोॅपणौषध्यानयनार्थं द्रोणाख्यपर्वतोद्धरणेनोद्धुरोपि हनुमांल्लॅज्जाभरादनमत्(1.6) मयि सत्यनेनायोधीति लज्जाभरः ॥ 57. यथाभवत्तस्य च शक्तिपातो धन्वन्तरिर्वायुसु(1.7)तो यथा च . वितत्य रामेण तथा समस्तं मातुः पुरस्तात्प्रतिपाद्यते स्म ॥ लक्ष्मणस्य श(1.8)क्तिपातो यथाभूद्यथा च हनुमान्विशल्यीकरणे धॅन्वन्तरीरासित्तथा स प्रकारस्स(1.9)मस्तं विस्तरेण मातुरग्रे रामेण प्रतिपादितः ॥ 58. स्तुतिर्जगत्प्राणसुतस्य के(1.10)यं जागर्ति यत्त्राणयितुं जगन्ति . हरिस्तथा भाति न कौस्तुभेन यथामुना लक्ष्मण(1.11) लक्ष्मणा त्वम् ॥ 1 Ms. सूक्ष्मं लक्ष्मणस्य crossed after ˚हृ. 2 Ms. ˚ह्नो˚. 3 Ms. ˚रपयो˚. 4 Ms. ˚माल्ल˚ 5 Ms. धान्व˚. 6 Ms. ˚न्वरि˚. 7 Ms. ˚तम्. 8 Ms. ˚गन्ति य˚.