भारतकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 184, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 184

१६६ पृथ्वीराजविजयमहाकाव्यम्. अनेन भोगेन मम शोभा नास्ति अतोऽहमीदृशं भोगित्वं सर्पत्वं(l.1) भोगभाक्त्वं च प्राप्नुयाम् येन त्वत्पादपवित्रां भूमिं स्प्रष्टुं सहस्रं मूर्ध्नां शिरसां फणानां(l.2) च यस्य स स्यामित्यादरद्योतनम्. शेषो भवेयमित्यर्थः ॥ 66. इत्थं महीनाथ कथानवद्या पु(l.3)राभवद्या पुरतो जनन्याः . स्नेहानुबन्धादपि दाशरथ्योः पफाल तस्यां प्रथमस्य वाक्यम् ॥(l.4) हे राजन्मातुरग्रे या कथा पूर्वमभूत्तस्यां कथायां प्रथमस्य रामस्य वाक्यं फलितम् ॥(l.5) 67. तथा हि रामत्वमुपेयुषः प्रा- ज्येष्ठस्य निर्वाहिनसाहचर्यः . कृष्णः कनिष्ठस्स विवेक(l.6)निष्ठ- स्तथागतत्वं प्रतिपन्न एव ॥ तथा हीत्यादि प्रथमवागुत्पत्तिपरम् हलधरभावं प्राप्त(l.7)स्य ज्येष्ठस्य भ्रातुर्लक्ष्मणावतारस्य संपादितसाहायकः कनिष्ठः कृष्णो बुद्धत्वं प्राप्तः ॥ (l.8) 68. अपत्यरत्नद्वयसंनिधान- निधानभूः कोसलराजपुत्री . यथा भवित्री विदितं तथा(l.9) मे बद्धावधानः क्षणमस्तु देवः ॥ कौसल्या द्वौ पुत्रौ यथा सूते तथा मम विदितमतो (l.10)राजा क्षणं सावधानो भवतु ॥ 69. चक्षुस्त्रयाणां जगतामवामं वामं त्रयाणामपि का(l.11)रणानाम् . 1 Ms. °न्थां. 2 Ms. °फली (!) 3 Ms. पत्रौ.