पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 191, कुल 330 में से
संदर्भ में पढ़ेंषष्ठः सर्गः . १७३ 'ख्यानकरं जघान . इतीव यद्दोर्वनदृप्तदन्ती रामेण रामो दमयांबभूवे ॥ मम पूर्वपुरु(l.1)षस्सहस्ररश्मिः तस्य मम गणनकरं कार्तवीर्यमयं हत- वानित्यस्मादिव कार्तवीर्यभुज(l.2)वनमत्तगजः परशुरामश्रीरामेण दमितः . मत्तश्च हस्ती दम्यते ॥ ९1. द्वाभ्यां शताभ्यां स क(l.3)रैररौंसी- त्पंचाशता च ध्रुवमेकमेकम् . नैकोपि पादश्चलति स्म येन धर्मस्य तस्मिन्परिरक्ष(l.4)ति क्ष्माम् ॥ पञ्चाशदधिकशतद्वयसंख्यैः करैस्सहस्रबाहुः कार्तवीर्यो धर्मस्यैकमेकं पादं त(l.5)द्ध्रुवं रुद्धवान् यतस्तस्मिन्भुवं पालयति धर्मस्यैकोपि पादो नाचलत् ॥ 92. कलिर्जजागा(l.6)र चुरिक्रियायां कृतस्य दत्ताभय एष राजा . तेनास्य पृथ्वीवलयप्रसिद्धिं प्राचुर्यमूहै(l.7) कलिचुर्युपाख्या ॥ कार्तवीर्यस्य कलिचुरिरिति नाम प्रसिद्धं तत्र कविरन्वर्थतामूहते(l.8). चुर स्तेये इत्यस्य धातोः क्रिया चुरिक्रिया तस्यां हरणोर्थात्कृतयुगस्य क- लिरुद्यतः . कार्त(l.9)वीर्यैः कृतस्य दत्ताभयः तेन ध्रुवं कलिचुरिसंज्ञा राज्ञो भूमण्डले प्रसिद्धिमवहत् ॥(l.10) 93. तदीयमेवाभरणायमानं क्रमागतं नाम समुद्वहन्तः . 1 Read संख्या°. 2 Ms. °रौ°. 3 Ms. पादं lc. on margin. 4 Ms. प्रापुर्यं°. 5 Ms. तन्ना° written under दत्ता°. Is it तत्र दत्ताभयः ?