पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 201, कुल 330 में से
संदर्भ में पढ़ेंसप्तमः सर्गः. १८३ स जगाद यदैक्षत क्षपाग्रे क्षितिपस्तद्भविता चिरादमोघम् . यदुषस्यवलोकितं(l.2) तु देव्यां कलितस्तस्य न कालतोतिपातः ॥ . राजा प्रदोषे यदपश्यत्तच्चिरेण सफलं भविष्यति(l.3) यत्तु देव्या प्रात- र्दृष्टं² तस्य चिरकालत्वं नाकलितम् ॥ 22. उचितामिव वाडवाग्निमैत्रीं मकराङ्कस्थि(l.4)तितः करोति भौमः . गगने न ममास्ति कापि शोभेत्यधुना कुम्भमिवालसः प्रविष्टः ॥ मकरो रा(l.5)शिविशेषस्तस्याङ्को मध्यम्. मकराङ्कश्च समुद्रः . तत्र स्थित्योपपन्नां वाडवाग्निमैत्रीमिव भौमः क(l.6)रोति दीप्तो वर्तते इत्यर्थः . भौमस्य हि मकरराशिरुच्चस्थानम् . आकाशे मम न कापि शोभेत्यत् इ(l.7)- वालसश्शनैश्चरः कुम्भं राशिविशेषं घटं च प्रविष्टः . अलसगामित्वाद्राकाशे शोभाभावः ॥ 23. द(l.8)नुजारिमिवानुनेतुकामो दनुजानां गुरुरेति मीनराशिम् . अधिरोहति मेषमेष पूषा तुरगा(l.9)णामिव खेदशान्तिकामः ॥ दनुजारिं विष्णुं प्रसादयितुकाम इव शुक्रो मीनराशिं समुद्रं(l.10) चैति तथाश्वानां विश्रमार्थमिवार्को मेषं राशिं ..... मध्यमधिरोहति ॥ 24. विहसन्निव मेषराशिनं तं(l.11) वृषभं याति वृषाङ्कशेखरोपि . उपलिप्सुरिवोभयस्वभावं मिथुनं संनिदधाति सोमसूनुः ॥(l.12) मेषो हुडस्तद्राशिनं रविं हसन्निवेन्दुर्वृषं राशिमनड्वाहमपि आया⁴ति वृषाङ्कशेखरस्वात्तंस्य वृष(l.13)स्थितिरु[चिता] ............ स्थिररूपं प्रा- प्तुकाम इव बुधो मिथुने संनिहितः . द्विस्वभा(l.14)[व] ........ [उभ]यो र्वीन्द्वो⁵र्वा स्वभावमुपलब्धुकामो मिथुनं हि द्वन्द्वम् ॥ 25. 1 See Canto VIII, verse 46. 2 See p. 185, verse 31. 3 Ms. ᵒनंतराᵒ. 4 Ms. आयात्ति lc. under l. 12. 5 Ms. ᵒन्दोᵒ. 6 Ms. ᵒयुᵒ etc. lc. under l. 14.