पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 216, कुल 330 में से
संदर्भ में पढ़ें१६८ पृथ्वीराजविजयमहाकाव्यम् गौरस्य स्तनस्य चूचुकमास्ये गृ(l. 7)ह्णन्त्स हृच्छल्यं कलङ्कं चन्द्रस्यो- द्धरन्निवाशोभतं . स्तनश्चन्द्रत्वेन चूचुकं कलङ्कत्वेन संभावितम् .(l. 8) मुख- मिति पाठो न तथार्थः ॥ ३४. तस्य धात्रीकुचाज्जातु कुङ्कुमं वदनं विशत् . गाढतां शा(l. 9)रदादेशानुरागं हृदयेनयत् ॥ धात्रीस्तनान्मुखं प्रविष्टं कुङ्कुमं कर्त्तृ शारदादेशे(l. 10)नुरागं मूर्त्तता- मिव चित्ते नीतवान् ॥ ३५. वंशशुक्त्युद्भवान्धात्रीहारमुक्तामणीन्स्पृशन् . गि(l. 11)रिसागरसारस्य ग्राहित्वं तत्करोग्रहीत् ॥ वंशाच्छुक्तेश्चोत्पन्नान्धात्रीहारमणीन्स्पृशंस्त(l. 12)त्करोद्रिसमुद्रसारग्रा- हित्वं गृहीतवानिव . स्तन्यपाने हि कण्ठभूषणानिरोधो बालानां स्व(l. 13)- भावः ॥ ३६. ताम्रपर्णीव तद्धात्री स्तनयोस्संनिधिं व्यधात् . मौक्तिकानीव निर्यान्ति वदनाद्व(l. 14)दतोस्य यत् ॥ तद्धात्री स्तनविषये ताम्रपर्णीव संनिधानमकरोत् यतो वदतोस्य मुखा(l. 15)न्मुक्ताफलानीव निर्गच्छन्ति . अव्यभिचारगतार्थत्वादनुपात्ते वचनरूपे विषये मुक्तानां((l. 16) विषयित्वम् . वदतस्सेति(?) पाठ आर्षः ॥ ३७. अव्यक्तवर्णया तस्य भाविन्या शुद्धवर्णया . स(l 17)रस्वत्या च लक्ष्म्या च मुखपद्ममचुम्ब्यत ॥ वर्णशब्दोक्षराणां यशसश्च वाचकः . बा(l. 18)ल्येनाव्यक्तवर्णया पुरत-
1 Ms. °शोभत lc. under l. 8. 2 Correct नीतवत्. 3. Ms. °गृही°. 4 cf. 33 above. 5 Ms. °दने°.