पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 219, कुल 330 में से
संदर्भ में पढ़ेंअष्टमः सर्गः . २०१ सगर्भा महिषी तेन पुत्रेणाधिकमतुष्यत् गर्भस्थितेन पुत्रेण ज्येष्ठ- •••••शिक्षितेव ॥ 48. माघस्याथ तृतीयास्यां सितायामपरं सुतम् . प्रसादमिव पार्वत्या मूर्त्तं परमवाप सा ॥ मूर्त्तं गौर्याः प्रसादमिव सा द्वितीयं पुत्रं गौरीतृतीयास्यामवाप- [त्] ॥ 49. ――(l.23*)――――――――― . ――――पदानां यत्कृतार्थत्वाय पस्पृशे ॥ यु(l.1)द्धेष्वस्य हस्तिदलनलीलां भविष्यन्तीं जानतेव हरिराजनाम्नायं स्वस्य कृतार्थत्वाये(l.2)व स्पृष्टः . हरिराजो हि हस्तिमर्द्दनः ॥ 50. उष्णशीतलयोर्मध्ये पावनं ज्येष्ठमाधयोः . सोमे(l.3)श्वरसुवोजन्म वह्निगङ्गाम्भसोरिव ॥ सोम उमासहित ईश्वरः सोमेश्वरो राजा च तद्भवोर्ग(l.4)णेशकुमार- यो राजपुत्रयोश्वोष्णशीतयोर्ज्येष्ठमाधयोर्मध्येऽग्निगङ्गाजलयोरिव जन्म पाव- नमभूत् ॥(l.5) 51. निदाघमाघजन्मभ्यां पीर्त्वा(?) तीव्रत्वमाययौ . ताभ्यामातपशीताभ्यामिव प्रत्यर्थिकर्णयोः ॥(l.6) निदाघे माघे च जन्म ययोस्ताभ्यां राजपुत्राभ्यामातपशीताभ्यामिव वैरिकर्णयोः पीर्त्वा(l.7) तीव्रत्वं प्रापत् ॥ 52. अथ भ्रातृम्यत्याभ्यां सनाथां जानता भुवम् . जग्मे विग्रहराजेन कृतार्थेन शि(l.8)वान्तिकम् ॥ 1 Sic. 2 Ms. गो°. 3 Ms. ॰जापु°. 4 Ms. ॰वाभू°. जन्म पावनं lc. on margin. 5 Sic. Is it पीडा ? २६