पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 22, कुल 330 में से
संदर्भ में पढ़ें२ पृथ्वीराजविजयमहाकाव्यम् . अचुम्बितार्थप्रति(1.7)[भान]भानु- र्वल्मीकजन्मा कवितावता[रः] . [स पातु वो यः] प्रबबन्ध पूर्व- मनन्तरं दाशरथिर्ज(1.8)जृम्भे ॥ अचुम्बि[तानामनुच्छि]ष्टानामनुल्लिखितानामर्थानामभिधेयानां व- स्तूनां च प्रतिभान(1.9) प्रकाशने वाल्मीकिर्युष्माञ्चेत् . तमेवोल्लेखं प्रकाश- यितुं वाल्मीकिं……………³ष्टे . यो(1.10) रामोत्पत्तेः पूर्वमेव रामचरित्रं प्रबद्धवान् पश्चाद्रामोस्फुरत् ॥ ३. [षड्दर्श]नर्तु⁴स्त्रिदिवं पु(1.11)राण- द्वीपोदधिं वेदममुद्रमेघम् • नभस्तलं व्याकरणग्रहाणां काव्यं व्यध— — प— —⁵(1.12)वोव्यात् ॥ दर्शनान्येव षट्संख्यत्वादृतवस्ते[षां] त्रिदिवं स्वर्गे [विरू]द्धानामपि तेषामेकत्र निवा(1.13)सात् पुराणान्येवाष्टादशसंख्य[त्वाद्वीपास्तेषा]मुद- धिम् तेषां तत्र वर्तित्वात् व्याकरणा(1.14)न्येव नवसंख्यत्वादग्रहास्सूर्याद- यस्तेषामाकाशं तदेकमु…………त्त्वान् वेदा एव समुद्राश्च(1.15)[सु]स्सं- ख्याताः⁷ तेषां मेघं वर्धकं यो महाभारताख्यं काव्यमकरोत्स व्यासो वो रक्षेत् ॥ ४. असत्य— (1.16) ५. [Lines 17 to end of page missing * ] ∙∙∙रयन् अन्तर्भावितण्यर्थोत्र करोतिः⁸ वेदवत्सत्यं रामायणं चकारेत्यर्थः त्रिसंख्यत्वाच्च त्रय्य(1.1)नुकरणम् . अतोस्माद्धेतोर्द्वितीयो मुनीन्द्रो व्यासः
1 Ms. °सुष्टिं. 2 Ms. वल्मी°. 3 Is it विशिनष्टि ? 4 Ms. °नंतुत्रि°. 5 Is it व्यधाद्व्यासमुनिः स ? 6 Ms. °यं lc. under l. 15. 7 Ms. °ताते°. 8 Ms. °तिवे°.