पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 231, कुल 330 में से
संदर्भ में पढ़ें२१४ पृथ्वीराजविजयमहाकाव्यम्. •••(l 22)तथा धूमकेतुना प्रजापीडासूचकेन शिखातारकेण कलिकालिका दुर्भिक्षादि का............(l 23*).............हिमे च सति दोहो न भ- वति' धूमकेतुरग्निः.............करोति ॥ ६. नवभिर्गृहैरिति विधेयतां गतै- र्नव(l 1)खण्डयापि धरया सुखं स्थितम् . ग्रहचक्रवर्त्तितनयोपि' सोन्तकः स्पृशति प्रजास्वसमये न कं(l. 2)चन ॥ शुद्धैर्नवभिर्ग्रहैर्हेतुभिर्नवखण्डया भुवा सुखेन स्थितम् . स यमोपिः प्रजासु मध्ये कं(l 3)चिन्नाकालेमारयत् यतो ग्रहचक्रवर्त्तिनः सूर्यस्य पुत्रः .- पृथ्वीराजस्य सूर्यवंश्यत्वादिति भावः ॥ (l 4) ७. अतिवृष्टिभीरुरुदधिः पयोमुचा- मुपयुक्तमेव सलिलं प्रयच्छति . स्मरतीव रामतनुना वि(l. 5)निर्मितां क्षितिपेन पूर्वमनलास्त्रखण्डनाम् ॥ अतिवृष्टेर्भीतः इव समुद्रो मेघानामुपयु(l. 6)ज्यमानमेव जलमदात् श्री- रामेण राज्ञा कृतामाग्नेयास्त्रखण्डनां स्मरतीवाब्धिः ॥ ८. अभिन(l. 7)न्दितोपगमनाः कृषीवलैः शँबलीभवन्ति समये बलाहकाः . चरणोदकं क्षितिपतेस्तर(l. 8)ङ्गिणी गगनस्थितेव परिपूरयन्त्यमून ॥ कृषीकरैःस्तुतागमना मेघा वर्षासु श्यामीभवन्ति(l. 9) नारायणावतारस्य राज्ञः पादजलं नदी गङ्गाकाशस्था मेघानिवापूरयत् . गङ्गाजल(l. 10)मेच 1 Ms. टा° to °ति lc. on top margin. 2 Ms. °शृँहे°. 3 Ms. °शत्वा°. 4 Ms. °निन्दिता. 5 Ms. °नम्. 6 Ms. °लैश्व°. 7 Ms. °यन्त्य°.