पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 236, कुल 330 में से
संदर्भ में पढ़ेंनवमः सर्गः . २१६ तद्गुणैः (l.9) रूपेण जितः कामोपि तथा विधेयीकृतो यथा यूनां पर- स्त्रीदर्शने काम एव हस्तद्वयाद्ध(l.10)नुश्शरौ त्यक्त्वा यूनां दृष्टिं हस्ताभ्या- मिव पिदधाति . तरुणाः परस्त्रीदर्शनं न कुर्वन्तीत्यर्थः ॥(l.11) 22. सुरसद्मभिः प्रतिपदं नवैर्नवै- स्त्रिदिवादिवाविरतमागतैर्महीम् . निजमेव कर्म विमलं(l.12) न मानवा- नमरावतीमनयदुद्धसामिव ॥ शुद्धं निजमेव कर्म कर्तृ मानवानमरावतीं ना(l.13)नयत् . स्वर्गादप्य- तिगुणे कृते तत्रैव स्वर्गमनुभुञ्जतेत्यर्थः . अतस्संभाव्यते उद्धसामि(l.14)व . अत्र हेतुमाह . प्रतिस्थानं नवैर्नवैर्निर्मितैर्देवगृहैः स्वर्गादिव भूमिमागतैः ॥ 23. प्रथि(l.15)मानमेति रजनी यदा तदां. यदुदेति कुम्भतनयो महामुनिः . प्रतिचत्वरानवरतोद्धवन्मठ- द्विज(l.16)वेदशब्दरुचिरत्र कारणम् ॥ यदा रात्रिर्वृद्धिमेति तदागस्त्यो यदुदेत्यत्रोदये प्रतिचतु(l.17)ष्पथेष्खवि- च्छिन्नमुच्चरन्तो ये मठद्विजवेदशब्दास्तेषु रुचिश्चश्रवणेच्छा भवति हेतुः ॥ 24. ग(l.18)णनातिगान्युपवनानि वापिका- स्सरसीः प्रपाश्च दधती वसुन्धरा . दिननायकस्य जगदे(l.19)कचक्षुषो- प्यधुनाश्नुते दशमभागदृश्यताम् ॥ असंख्यन्युद्यानादीनि दधतीं भूस्सूर्येण(l.20) [द]शमभागे दृश्यतां 1 Ms. °थ° corrected to °दृ°. 2 Ms. तदा lc. under 1.16. 3 Comm. °तोच्चरन्म°.