भारतकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 238, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 238

नवमः सर्गः . २२१ न यथा ते(l.7)था व्यवहरत्युषर्बुध- श्शुभमेव चिन्तयति सर्वसद्मनाम् . विजहत्सु शूरतनयेषु शस्त्रां स्वप्(l.8)दे न लोहचरणोपि दृश्यते ॥ उषर्बुधोऽग्निस्स्वेच्छया न व्यवहरति सर्वगृहाणां शुभमेव ध्याय(l.9)ति तथा शूरा वीराः शूरोर्कश्च तत्पुत्रेषु शस्त्राणि त्यजत्सु सत्सु शूरतनयो लोह- चरणः स्वस्थाने न दृ(l.10)श्यते ॥ २९. यमकिङ्करेष्वपि निरुद्धसंचरे- ष्वविशन्न यातुपतिसैनिकांः क्षितिम् . मरुमेदिनी(l.11)ष्वपि विहाय विक्रियां मधुरत्वमेव वरुणेन सेव्यते ॥ यमकिङ्करेष्वपि रुद्धप्रवेषेषु सत्सु (l.12) यातुपतिसैनिका राक्षसा भुवनं न प्रविष्टांः . क्षारत्वं त्यक्त्वा वरुणेन मरुषु माधुर्यं सेवितम् ॥ ३०. परिर(l.13)क्षतीव कमलस्थितां श्रियं सरसामुपान्तविपिनेषु मारुतः . धनदस्य जाग्रति वसुंधराधवे न(l.14) निधिप्रजागरमकुर्वतोरगांः ॥ सरसामन्तेषु वायुः पद्मलक्ष्मीमिव रक्षति तथा राज्ञि रक्षा(l.15)र्थे जाग्रति सर्पा निधिरक्षार्थं प्रजागरं नाकुर्वन् ॥ ३१. नृपतिस्स्वयं स्फुरति वैष्णवं मह- , स्तदुपर्यु(l.16)पस्क्रियत रुद्रतेजसा . 1 Ms. °न्त्युष°. 2 Ms. सखियां. 3 Ms. °कः. 4 Ms. °विष्ठाः. 5 Cfr. verse 10, supra. 6 Ms. °पस्क्रि°.