पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 246, कुल 330 में से
संदर्भ में पढ़ेंनवमः सर्गः . २२६ निरुपप्लवां रचयितुं क्षितिं यतो दशमावतारकरणीयम्(l.22)[ग्रहीत्] ॥ एतानि नवसंख्यानि पूर्वजन्मभवानि अपि लक्षणान्यवलम्ब्याश्रित्य राजा तद्बलमवहत् (l.23**64). तत्समबलोभूदित्यर्थः. ततो भूमेरुपद्रवं नि- वारयितुं दशमावतारे कर्तव्यमग्रहीत् ॥ 54. अयशस्विताप्रथमबीजकल्पया विजितस्य रूपविषयान्मनोभुवः . वदनाधिवासमिलितालिरेखया कृ(l.2)तपूर्वरङ्गमिव कूर्चलेखया ॥ मुखपद्मसौगन्ध्यागतभ्रमरमालासदृश्या तथा रूपेण जि(l.3)तस्य का- मस्य अपयशोबीजसदृश्या श्मश्रुलेखया कृतोर्थाद्यौवनस्य कामजयस्य वा पूर्वरङ्गो(l.4) येन तत् ॥ 55. अवतंसकुण्डलमरीचिरोचितं शशिबिम्बतां स्पृशति गण्डमण्डलम् . परितापस(l.5)म्पदमिवान्यपार्थिवै- र्जनितां न्यपोहितुमृतस्य तिष्ठतः ॥ भूषणकुण्डलरश्मिभूषितः कपोलः(l 6) चन्द्रकान्तिं धारयति मुखमध्ये वसतस्तस्यान्यराजैः कृतं तापमिव वारयितुम् ॥ 56. यदि चापकौ(l.7)शलकलामवाप्नुया- ममुतो भवेयमभयस्तदीश्वरात् . इति चेतसा च वपुषा च निर्जितो- प्यभिको(l.8) रतेरनुचरत्वमाययौ ॥ 1 Ms. अपि lc. under l. 23. 2 Ms. ˚न्त्याश्रि˚. 3 Scil. गण्डमण्डलं, (verse 56 ).