भारतकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 271, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 271

२५४ पृथ्वीराजविजयमहाकाव्यम्. राजद्वास्थवर्गस्तमापतन्तं सन्तं कथमपि क्षिपिपेथेति¹ संबंधः (l.8). ख- लतिदशां लुञ्चनं प्रापितं शिरः कर्मभूतं दधानम् अतस्संभाव्यते निरवधी- नामसंख्यानां कपिला(l.9)नां गोविशेषाणां वधो मारणं तत्प्रशस्तिं लिखितु- मिव वेधसैव विस्तीर्णंललाटपट्टं सृष्टम्. लि(l.10)खितुमिति चिन्त्यम्॥ 43. परिहृतकचकूर्चपक्ष्मरोम- व्रजमिव कालिकयाप्यवद्यभीत्या• स्वपदसु(l.11)लभगोस्तनीगुलुच्छ- प्रतिफलितामिव बभ्रुतां वहन्तम्॥ स्वपदे गर्जनदेशे सुलभा या गोस्त(l.12)नी द्राक्षा तद्गुलुच्छेभ्यस्सं- क्रान्तामिव कपिलवर्णतां दधानं अतस्संभाव्यते पापभयात्कालत्वेना(l.13)पि त्यक्तकेशादिकम्॥ 44. दधतमपुनरुद्गमाय लूनै- स्सह चिकुरैरिव लुप्तमूर्धवर्णीम्• विपिन(l.14)विहगवाशितायमानां तनुमिव धिगिरमप्यशुद्धवर्णाम्॥ धिङिन्दायाम्. वनपक्षिरुतसमां(l.15) गिरं दधतम् लुप्ता मूर्धवर्णा ऋटवर्गरेफा यस्यास्ताम् तनुमिव. तत्पक्षे मूर्धवर्णाः कालत्वं अशुद्धो(l.16) [व]र्णो जनङ्गमत्वं यस्याम्॥ 45. ' हृतमिव हिमतश्शुचित्ववर्णां जननभुवः ककुभो हिमाद्रिमत्याः• सिं(l.17)[च]यसमुचितं विपाण्डिमानं वपुषि वहन्तमवद्यरोगकल्पम्॥ 1 Ms. °पेथिसं.° 2 The verse referred to by this part of the Comm. is lost. 3 Ms. °यौल.° 4 Ms. °सानां.

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास) · पृष्ठ 271, कुल 330 में से · BharatKosha