पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 276, कुल 330 में से
संदर्भ में पढ़ेंएकादशः सर्गः. २४६ यथा तिलोत्तमामुद्दिश्य(l.8) सुन्दोपसुन्दौ नष्टौ तथा तव मनोज्ञां ल- क्ष्मीमुद्दिश्य शत्रवस्स्वयं नाशमेष्यन्ति ॥ 5. इति तस्मिन्वदत्येव(l.9) महीनं विनयानतः . तेजसेव भ्रमदृष्टिः प्रतीहारो व्यजिज्ञपत् ॥ एवं तस्मिन्कथयत्येवं वि(l.10)नयेन नतोतस्तेजसेव सम्भ्रान्तदृष्टिः प्र- तीहारो विज्ञप्तवान् ॥ 6. हृद्यमान्तमिवानन्दं विकस्वरमुखो(l.11) वमन् .. लेखहस्तः पुमान्प्राप्तो देव गूर्जरमण्डलात् ॥ 7. आकर्ण्येति प्रतीहारभारतीं भारतेश्वरः .(l.12) तूर्णं प्रवेशयेत्यूचे स च दूतमवीविशत् ॥ एवं प्रतीहारविज्ञप्तिं श्रुत्वा त्वमेनं प्रवेशयेति(l.13) राजा तमेवं प्रत्यु- क्तवान् प्रतीहारश्च दूतं प्रवेशितवान् ॥ 8. मुखे प्रसादसंवादसंमतैस्स मितैः(l.14) पदैः . गूर्जरोपज्ञमाचख्यौ घोरं गोरिपराभवम् ॥ मुखे प्रसादस्य संवादेन प्रियैरल्पैः पदैः(l.15) स दूतो गूर्जराणामुपज्ञाद्य- ज्ञानं. प्रथमं गूर्जरैरेव कृतामित्यर्थः . गोरीणां म्लेच्छानां पराभवं कथि(l.16)- तवान् . उपज्ञोपक्रममिति नपुंसकम् . उपज्ञा ज्ञानमाद्यं स्यादित्यमरः ॥ 9. उच्चैश्रवस्स्वसा(l.17) लक्ष्मीर्मुनेव कलङ्किता . इति क्रोधेन निःशेषैः परित्यक्तं तुरङ्गमैः ॥ उच्चैश्रवसस्सोदरी श्रीर(l.18) ......... दूषितेतिव रुषा सर्वैरश्वैस्त्य- क्तम् ॥ 10. 1 Ms. °गतः. 2 Ms. °त्वेव. 3 No Comm. 4 Ms. °र्ति. 5 Ms. °द्यं गो°. 6 Panini, 2. 4. 21. 7 Amara. 2. 692.