पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 283, कुल 330 में से
संदर्भ में पढ़ें२६६ पृथ्वीराजविजयमहाकाव्यम्. वर्णपात्रमुत्पाद्या(l.1) .........तीत्यर्थः . अयमर्थः दशरथस्य पुत्रकामेष्टि- मृश्यशृङ्गो¹ यदाकरो(l 2)त्तदाग्नि.........चरुपूर्णा दधत्पुरुषः प्रादुर्भूतः ततो दशरथस्तां सुवर्णपात्रीमृश्यशृ(l.3)ङ्गाय दत्तवान् ॥ ३४. योयं पयश्चरुरयं तुहिनांशुबिम्ब- मेतत्तले कनकभाजनमेष भानुः . अग्नेरुदेति(l.4) पुरुषोयमिति क्षयाय धामत्रयं घटितमत्र निशाचराणाम् ॥ यः क्षीरचरुस्स चन्द्रः क्षीरच(l.5)र्वाधारभूतं हेमपात्रं स सूर्यः अग्नेर्यः पुरुषो निर्गतस्सोयमग्निरिति निशाचराणां क्षयार्थं धामत्रयं संघ(l.6)टित- मिति संभावनम् ॥ ३५. अम्भोधेरुदरे चिरस्य जनितं तेजोवधं निद्रया संमृज्येव महर्षिमन्त्रनिन(l.7)दैः⁵ पुत्रीयया चानले . वीर्यं वैष्णवमुद्गतं चरुमिषादेतद्धरित्रीस्रुज- स्सावित्रस्य करद्वयेत्रं पुरुषः(l.8) कोप्येष विन्यस्यति ॥ चिरं समुद्रमध्ये निद्रया जनितं तेजोवधं मन्त्रध्वनिभिरग्नौ पुत्रीये- ष्ट्या च होमेन(l.9) संमृज्य निवार्येव चरुरूपमुद्गतं विष्णुतेजः कोपि दिव्य एष पुरुषस्सावित्रस्य राज्ञो हस्तद्वये न्यस्यति(l.10) . अयमर्थः तेजोजलयोर- न्योन्यप्रतिपक्षभूतत्वात्समुद्रान्तर्निद्रया हरेस्तेजोवधो जातस्तस्य च शब्दै- (l.11)र्होमेनं च निवृत्तिरुचिता ततो वीर्यं दशरथस्य दिव्यः पुमान्प्रति- पादयति ॥ ३६. दत्त्वात्कोशलकैकेयेन्द्र(l.12)सुतयोरभ्यर्थिताभीष्टयो- र्वाग्देवीवरमयोरिवामृतचरोश्चित्तादिवांशावुभौ .
1 Ms. °श्यशृङ्गो° lc. on margin, °दशरथो° crossed in the text. 2 Ms. °तत्सुप्ते. 3 Ms. समूहः. 4 Ms. °चराणां lc. under l. 5. 5 Ms. संमृ°. 6 Ms. °निननदैः. 7 Ms. °रत्वये°. 8 Ms. °सुषतं lc. under l. 9. 9 Ms. °र्हेमे°. 10 Ms. °कैक°.