पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 298, कुल 330 में से
संदर्भ में पढ़ेंआमुखे प्रतिभासते . हेमवप्रे कंपि(l.11)शीर्षपङ्क्तिरपि बाहुल्यान्न विभा- व्यते इत्यर्थः ॥ 76. व्यतिकरितहरित्पिशाङ्गरक्तःकपिवलयोधकब(l.12)न्धताण्डवेयम् . असुलभसुरसुन्दरीविमाना रघुपतिरावणसंपरायगोष्ठी ॥ हरितां का(l.13)न्तानां रक्षसां पिशाङ्गानां कपीनां च कबन्धताण्डवं व्यतिकरितं मिलितं यस्यां सा तथा दु(l.14)र्लभाप्सरोविमाना . बहूनां वी- राणां मारणादिति भावः . रामरावणगोष्ठीयं भवति ॥ 77. राममेव(l.15) किल शेषशायिनं शेषमेव च विचिन्त्य लक्ष्मणम् . गाढतां ध्रुवमिदं न शिश्रिये मेघनादभुज(l.16)गास्त्रबंधनम् ॥ रामं विष्णुं शेषे शयानं लक्ष्मणं शेषमेव चिन्तयित्वा मेघनादकृतं सर्पास्त्रबंध(l.17)नं गाढतां नाश्रयत् . अहीन्द्रेणाराध्यस्याहिपतेश्च कथं वयं बन्धनं कुर्म इति चिन्तयित्वेव सर्पास्त्र(l.18)बन्धनं सद्यो विगतम् इत्यर्थः ॥ 78. ज्येष्ठानुवर्तनरसे कथमेतदीये भाव्यं मयेति तमिवार्विलमुर्जि(l.19)हीर्षुः . शक्तिं न्यधाद्दशमुखो हृदि लक्ष्मणस्य वेगादयं पवनभूः प्रतिहन्ति तां च ॥ एतदीये ल(l.20)क्ष्मणसंबन्धिनि ज्येष्ठानुवर्तनरसे रामभक्तिरसे सति मया कथं भाव्यं जीवनीियमितस्ततं रामभक्ति(l.21)[रसमु]द्धर्तुकाम इव रावणो लक्ष्मणहृदये शक्तिं न्यधात्ततो हनूमांस्तां शक्तिं प्रति शल्योद्धरणा- (l.22)······ ॥ 79. [अधोंच्छु]तैशगिरिपीडितदोर्बलस्य द्रोणाचले करगतेपि विलंघिताब्धिः . 1 Ms. कपिकपिशी°. 2 i. e., कपिशा°. 3 Ms. °गोष्टी°. 4 Ms. °मुज्झि°. ३६