पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 42, कुल 330 में से
संदर्भ में पढ़ें२२ पृथ्विराजविजयमहाकाव्यम्. व्यधादहल्यागमनाघशुद्धिं यतो निविश्याम्बुज(l.15)नालवाले • इन्द्रोस्य तीर्थस्य ततः प्रभावा- न्नेत्राण्यवापाम्बुजसोदराणि ॥ अस्मिंस्तीर्थे पद्मनालतन्तौ(l.16) निविश्येन्द्रोहल्याभोगपापंनिवृत्तये तपो यद्व्यधात्तत इन्द्रोस्य तीर्थस्य प्रभावात्पद्मसमानि नेत्राणि लेभे(l.17) • गौतमशप्तश्शक्रश्शरीरे रन्ध्रदशशती प्रापत् अस्य तीर्थस्य॑ प्रभावादत्र तपः कुर्वतश्शक्रस्य नेत्रसह(l.18)स्रं संपन्नमिति श्रुतिः ॥ ⁵संभावितादघशोधना- दधिकस्य रन्ध्राणां नेत्रीभावस्य सं(l)पत्तिरिति विशेषः ॥ ५७. सप्तर्षिदारान्प्रति दुर्विकल्पे तीर्थे कृशानोरघमर्षणं तत् • यमेन यम्यां च(l.19) पयस्तदीय- माचम्य पापं विनियम्यते स्म ॥ अग्नेस्सप्तर्षिदारान्प्रत्यभिलाषो भूत्ततस्स्वभार्यां सप्त(l 20)र्षिदाररूपं कारयित्वाऽरंस्तेति दुर्विकल्पे सति अग्नेस्तत्तीर्थमघमर्षणम् तत एव पापशुद्धि- र्जातेत्यर्थः(l.21) यमस्य भगिन्यामभिलाषोभूदिति यम्यां पापं यमेन तज्ज- लमाचम्य निवारितम् ॥ ५८. स्नात्वा जले(l 22) तत्र दिगीश्वरत्वे योग्येन रक्षःपतिनापि जातम् • क्षारेण किं वारिधिनेति वेद तदेव सर्वस्वमिति प्रचे(l.23)ताः ॥ तत्रैव स्नात्वा महाराक्षसेनापि नैर्ऋतेन दिक्पालत्वे योग्येन जातम् • *1 Ms. °नाल°. 2 Ms. निवें°. 3 Ms. पापं lc- under l.16. 4 Ms. तीयस्य. 5 Ms. संभा° to °शेषः lc. on margin.