पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 51, कुल 330 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः. ३१ किमुत्त(l.2)रस्यां दिशि वृद्धतेजसा कृतोपचारो वसुभिर्विवस्वता . उपेत्य रम्भाप्रणयात्त्रिविष्टपं त्र(l.3)जत्यसावुत्तरदिक्पतेस्सुतः ॥ ५. किमेष सत्यप्यमृतांशुसौहृदे तिरस्कृतश्चन्द्रकिरीटतेजसा .(l.4) विरागतस्सूत्रितमित्रसंग्रहो जगज्जिगीषुर्मदनोवरोहति ॥ ६. किमोषधीशस्य सहोदरो भिष- क्कृ(l.5)तोपदेशश्चिरकालमश्विनोः . अनामयीकर्तुमदः क्ष्मातलं त्विषां निधेर्मण्डलमेष मुञ्च(l.6)ति ॥ ७. किमेष राशिस्थितिमेत्य भास्वता वितीर्णदोषोपशमार्थवैभवः . उपप्लवं म्लेच्छकृतं म(l.7)हीसुत- स्स्वमातुरङ्कं विनिहन्तुमागतः ॥ ८. अनूरुणा जांतिरिति प्रवेशितो निराकरिष्यंस्तिमि(l.8)रं रसातलात् . गृहीतशिक्षः किमयं दिवाकरा- द्धरामनन्तः पुनरेति रक्षितुम् ॥ ९. सहस्रपा(l.9)देन निकामसेवया कृतप्रसादो द्वितयेन पादयोः . किमेष पापाकुलितं नु पुष्करं पवित्रयि(l.10)ष्यन्नरुणोवरोहति ॥ १०. १ Ms. किमौष°. २ Ms. °याज्जा°.