पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 69, कुल 330 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः , २६ ' धनेन कोशाधिपति(l.7)मृधे मृधे व्ययीकृतेनाप्यसमाप्तसंग्रहः . सुमेरुरत्नाकररोहणाचल- प्रभावजैत्रो वरिवस्य(l.8)ति स्म तम् ॥ २ ॥² अजगन्धाख्यप्रदेशे निवसत़ा शिवेन स्वसमीपाद्दत्तस्स्वंससखा वैश्रव- (l.9)ण इवोपागतः अथवा तस्मिन्नलकूवरभ्रान्त्या रक्षितुं स्वयमेव धनपति- रागतः इवेत्युत्प्रे(l.10)क्षा. युद्धे युद्धे व्ययीकृतेनापि भाण्डागारेणासमाप्त- स्संग्रहो यस्य स कोशपतिर्हेमाद्रिरत्नाक(l.11)ररत्नाचलेभ्योधिकस्तं सेवि- तवान् ॥ ६२. भरक्षमो र्राक्षससंचयं प्रति त्वंयानुजोसावनुगम्यतां मृ(l.12)धे . इतीव वाक्यं सवितुर्यमस्स्वयं नरार्मना राम इवानुपालयन् ॥ ६३. अतीव यो दुर्बल एव सर्वथा(l.13) तमप्यधिष्ठाय बलिष्ठतां नयन . समाप्तशस्त्रास्त्रविधौ धनंजयो बभूव सेनापतिरस्य शाश्वतः ॥ २ ॥¹(l.14) राक्षसचयप्रवृत्तौसौ कनिष्ठो भ्राता भवतानुगम्यतामित्येतत्सूर्यस्य वचो- नुपालयन्मनुष्यरूपेण(l.15) यम इत्यारोपः तथा राम इवेति . स हि सवितुः पितुर्दशरथस्याज्ञामपालयत् . तथान्यर्थे(l.16) यो दुर्बलस्तमप्यधिष्ठाय स्व- पक्षीकृत्यातिबलवत्त्वं नयन् शस्त्रकर्मण्यस्रकर्मणि चास्य ध(l.17)नञ्जयो- र्जुनश्शाश्वतः सेनापतिरभूत् . धनञ्जयाख्यो वायुश्च बलप्रदः ॥ ६४. 1 Ms. °रोहिं°. 2 So Ms. 3 Ms. °त्तस्वं°. 4 Ms. रक्षासं°. 5 Ms. द्वया°. 6 Ms. नगात्म°. 7 Ms. °मिलेत्त्वं°. 8 Ms. °कृता°. 9 Ms. °तेसं, ७