पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 79, कुल 330 में से
संदर्भ में पढ़ेंतृतीयः सर्गः . ५६ यथा तं दृष्ट्वा जनास्तुतुपुस्तथा न म(l.13)यूरादयो मेघादीन्दृष्ट्वा तुष्य- न्ति. मेघादिभिरिव मयूरादयस्तेन प्रजा दत्तवृत्तय इत्यर्थः ॥(l.14) 7. न हिमाद्रिणा मलयजेन तथा शिशिराभवच्चिरमनेन यथा . न सुमेरुणा न मणिभूमिभृ(l.15)ता वसुमत्यपि क्षितिरनेन यथा ॥ यथानेन राज्ञा हृततापा भूर्भून्न तथा हिमाचलचन्द(l.16)नाभ्याम् . यथामुना मूर्धनवत्यभून्न तथा सुमेरुरोह[णाभ्याम्] ॥ . 8. [कमलालया] ‿ ‿वती क(l.17)[मला] [प्रविहाय] यागतवती नृपतीन् . कमलोपमादपि तदङ्घ्रियुंगा- त्प्रणिपत्य तां पुनरवापु(l.18)रमी ॥ या लक्ष्मी राज्ञस्त्यक्त्वागतवती ताममी ऽपि राजानस्तत्पादपद्मद्वयं प्रणम्य ततः प्रापुः . अ(l.19)त एव कमलालयेति विशेषणमर्थवत्. तत्सेव- कानामेव राज्ञां श्रीरासीन्नान्येषामिति भावः ॥(l.20) 9. मखभूमिगैशशतमखप्रमुखै- ररुदन्यतो दिगधिपप्रमदाः . मखधूम्यया निरपवादमर्तः(l.21) परिबभ्रमे हि ततदिक्टया ॥ अस्य यज्ञगतैरिन्द्रादिभिर्हेतुभिस्तद्रामा अरुदन्नुदन्तीति य(l.22)ज्ज्ञा- तमिति शेषः अतस्तन्मखधूमजालेन च्छादितदिगन्तेन निरपवादं कृत्वा भ्रान्तम् . अयमर्थः(l.23) मख[धूमेनैव] लोकपालस्त्रीणां बाष्पनिर्गलनमभूत् 1 Ms. गेहिं. 2 Ms. ॰गवती. 3 Ms. ॰भगा॰. 4 Ms. कवि lc. under l. 18. 5 Ms. ॰मतोः. 6 Ms. ॰हित्तिदृ॰.