भारतकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 94, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 94

७४ पृथ्वीराजविजयमहाकाव्यम्. दर्भाङ्कुरेषु मृणालभ्रान्त्या हेतुभूतया दर्भाङ्कुराञ्जिह्वया लिहतो जिह्वायां पद्मपत्रभ्रान्त्या जिह्वां दशनैर्लिह(1.2)तः दूरावनम्रैर्वदनैरुन्नमनात्क्रमेणात्ताः पीता मातृस्तना यैस्तान्वराहपोतान्स नावधीत् ॥ १२. नैसर्गिकार्वि(1.3)चलवर्णगुणस्य यन्न- निष्पन्नवर्णगुणसङ्गमसुत्यजेन . दिग्वाससेव कृशशास्रमुखेन देवो बाधां द्विज(1.4)स्य शिखिनो विशिखेन नैच्छत् ॥ स्वाभाविकोऽविचलः स्थिरो वर्णगुणो नीलपीतादिर्यस्यै द्विजस्य म- यूरा(1.5)देः पक्षिणो राजा बाधां नाकरोत् केन यत्नेन निष्पन्नो निष्पादितो यो वर्णो गुणसंगमस्तेनं हेतुना सुत्यजेन विशिखेन . वि(1.6)गलिता लुञ्चिता शिखा केशा यस्य तेन शिखिनश्चूडावतो द्विजस्य कस्याचिद्बाधां नेच्छति अचिलो वर्णो (1.7)ब्राह्मणत्वं गुणः पाठादिश्च यस्य यत्नेन निष्पन्नो वर्ण- गुणो ब्राह्मणगुणः पाठादिस्तेन सुत्यजः . कृशं शा(1.8)स्रं यस्य तन्मुखं यस्य अल्पश(स्त्रेने)त्यर्थः ॥ १३. यत्पुण्डरीकमवधीत्तत एव चन्द्रा- पीडोयमित्यधिजगाम यश(1.9)स्स राजा . दूरं गतस्तु मृगयाव्यसनेन चित्रं कादम्बरीं न मनसापि कदाप्यपश्यत् ॥ स राजा पुण्डरीकं व्याघ्रं(1.10)मुनिपुत्रं च यदहिंसीत्ततोयं राजा च- न्द्रापीड इति प्रसिद्धिं प्राप्तवान् . चन्द्रापीडो राजा पुण्डरीकं मुनिपुत्रं ह- तवान् (1.11) अयं च पुण्डरीकं व्याघ्रं हतवान् इति चन्द्रापीड इति प्रसिद्धिं प्राप्तन् . आखेटकव्यसनेन तु दूरगतोपि मनसापि(1.12) कादम्बरीं मदिरां - 1 Ms. °भ्रान्त्या. 2 Add तस्य. 3 Ms. °गुणस्ते°; संगम being lc. under l.5. 4 Ms. °याँवाह°. 5 Ms. °त्रं.