भारतकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 31, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 31

( ४३ ) एक एव विमर्दिताभिकबलक्रोधवेगो दारुणतरं संप्रहारं कृत्वा शत्रुबलमित्थमथाकुले कृत्वा पात्रप्रहारशतजर्जरितोरुवक्षा युधि निहतस्तथा सर्वमाख्यत् । व्यज्ञापयच्च देव सबन्धुपरिवारे हते विन्ध्यकेतौ शून्योभूते तत्स्थाने हा तात हा मातः इति कृतकृपणप्रलापा विन्ध्यकेतोर्बेशम्युपलब्ध्याभिजात्यानुरूपा कन्यका तदुहितेत्यस्मा- भिरानीता द्वारि तिष्ठति । तां प्रति देवः प्रमाणमिति । तत एतां वासवदत्तायै समर्पय । श्लक्ष्णया च देवी भगिनीबुद्ध्या स्वयेयं सर्वदा द्रष्टव्या विशिष्टकन्योचिते नृत्यगीतादि सर्वं शिक्षयितव्या चेति प्रतीहारीमादिदेश । वासवदत्तापि तामरण्याङ्कध्येत्यारण्यिकाशब्देन व्यपदिश्यै स्वान्तःपुरेऽस्थापयत् । तदनन्तरं वैतालिकेनाभिवन्दितमध् याह्नुरागमः स्नानाथैमुदति- . ष्ठन्नरपतिः । शाह च म्भणदन्तमभ्यन्तरं प्रविश्य कृतयथोचितक्रियाः सत्कृत्य विजयसेनं कलिङ्गोच्छित्तये प्रेषयान इति । द्वितीयाङ्के तावत्प्रथमं राज्ञो विदूषकेण सह प्रवेशः । तत्र गृहीतनतामुपवनारूक्षां स्नप्रियां द्रष्टुं सोत्कण्ठो वत्सराजो वयस्येन वसन्तकेन सहोत्कण्ठाविनोदनार्थं धारागृहो- द्यानं जगाम । अत्रान्तरे अगस्त्याय महर्घ्येदर्थं दातुकामया देव्या शेफालिकाकुसुम- मालां स्रतु गृहीत्वागच्छेदित्याज्ञाप्ता इन्दीवरिका नाम चेटी धारागृहोद्यानदीर्घिकायाः कमलो- न्नयवचित्य लवागच्छेत्यादिश्या आरण्यिकया सार्धं तदेवोद्यानमागतवती । यावच्च धारा- गृहोद्यानधिया स्फुटपङ्कजकान्तिहारिण्या हंसस्वनपुष्पसौगन्ध्यादिना रम्याया दीर्घिकाया दर्शनेन चाह्लादितचित्तो नृपो वसन्तकेन सह संभायमानस्तिष्ठति तावदारण्यिका तत्रा गता प्रत्यक्षचरीवोद्यानदेवता विदूषकेण दृष्टा । राज्ञे निवेदिता च । किंन्वियं नागकन्या भवेदाहोखिन्नृपर्तौ कौमुदीत्यादि वितर्कयन्नृप इन्दीवरिकारण्यकयोर्विम्भालापात्तां विन्ध्य- केतुदुहितेति ज्ञातवान् । अभवच्च तस्यामनुरक्तचित्तः । तदनन्तरं कमलान्व्यवचिन्वती मधुकैराक्रम्यमाणाऽरण्यिका तन्निवारणार्थं स्वसखीमाह्वयत् । तथा तां दृष्ट्वा विदूषको- पदेशाद्राज्ञा तूष्णीमुपगत्य रामवात्सग्यतं च सखीबुद्ध्याऽरण्यिका । वत्सराजोऽपि तां कण्ठे जग्राह स्वोत्तरीयेण भ्रमरान्निवारयितुमारेभे च । राजानं दृष्ट्वा सत्रायसं दूरमपसृता आरण्यिका से रासश्टुं पश्यन्ती स्वगतमाह अय स महाराजौ यस्याहं तातेन दत्ता । स्थाने खलु तातस्य पक्षपातःइति । अत्रान्तरे राक्षीराहाम्पाथैमागतामिन्दीवरिकां दृष्ट्वा राजाव- मन्तकक्ष कदलीगृह प्रविश्य स्थितौ । निर्गते चेन्दीवरिकारण्यके । वत्सराजोप्यारण्यकया हृनचित्तः क उपायः पुनरेतां द्रष्टुमिति चिन्तयन् परिणतप्रायं दिनमं दृष्ट्वा स्ववयस्यो गृहाभ्यन्तरं प्रविवेश । तृतीयाङ्के तावत्प्रथमं 'हजे मनोरमे यः स साङ्कृत्यायन्वार्यपुत्रस्य मम च वृत्तान्तो नाट्येोपनिबद्धस्तस्य नर्तितव्यशेषमद्य तुम्माभिः कौमुदीमहोत्सवे नर्तितव्यमिति देव्या वासवदत्तादाज्ञाया मनोरमायाः प्रवेशः । सा च ह्मः खलु आरण्यकया प्रियसख्या श्लथहृदययाग्यमेव नर्तितव्यथ पुनर्वासवदत्ताभूमिका तया यदि तथा स्थिते ततोमशं देवी कुप्यति । अतस्तामन्विष्योपारम्भ्य इति मनसि कृत्वा धारागृहोध्यान्दीर्घिकाम- गतवती । अपश्यच्च तां कदलीगृहं प्रविशन्तीम् । ततस्तस्या विश्रम्भभाषणाद्दन्मचुरेतु- रकतेयमिति ज्ञात्वा तामुपेत्य समाश्वास्य मदनसन्तप्ताङ्गामातस्त्याः शिशिरोप- चारेण संतापं लघूकर्तुं प्रायत्तत । अत्रान्तर आरण्यिकायां दृढमनुरङ्गेन वत्सराजेन प्रहितो

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक) · पृष्ठ 31, कुल 184 में से · BharatKosha