प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 54, कुल 184 में से
संदर्भ में पढ़ें२२ प्रियदर्शिकायां आबद्धमुखमपार्थं कण्टकितं कमलकाननं तस्याः । सुकुमारपाणिपल्लवसंस्पर्शसुखं कथयतीव ॥ ९ ॥ ( निःश्वस्य । ) सखे ! क इदानीमुपायः पुनस्तां द्रष्टुम् । विदूषकः—भोः त्वमेव पुत्तलियां भङ्क्तेदानीं रोदिषि । न मम खलु ब्राह्मणस्य वचनं करोषि । ( भो तुमे एव्व पुत्तलिअं भञ्जिअ दाणिं रोदिसि । ण मह क्खु बह्मणस्स वअणं करेसि । ) राजा—किं मया न कृतम् । विदूषकः—तदिदानीं विस्मृतम् । यथा तूष्णीको भूत्वोपसर्पेति मया भणितम् । अतिसंकटे यद्भवान्प्रविश्यालीकपाण्डित्यदुविदग्धतया “ अयि विसृज विषादम् ” इत्येतैरन्यैश्च कटुवचनैर्निर्भर्त्स्य सांप्रतं किं रोदिषि । पुनरप्युपायं पृच्छसि । ( तं दाणिं विसुमरिदं । जह तुण्हीओ भविअ उवसप्पेत्ति मए भणिदं । आदिसंकडे ज भवं पविसिअ अलिअपंडिच्चदुव्विदग्गदाए अह विसिज्ज विसादेत्ति एदेहिं अन्नेहिं अ कडुअवअणेहिं णिब्भच्छिअ संपदं किं रोदिसि । पुणो वि उवाअं पुच्छसि । ) राजा— कथं समाश्वासनमपि निर्भर्त्सनमिति भणितं मूर्खेन । विदूषकः—ज्ञातमेव कोऽत्र मूर्ख इति । तत्किमेतेन । अस्तमया- भिलाषी भगवान्सहस्ररश्मिः । तदेह्मभ्यन्तरमेव प्रविशावः । ( जाणिदं एव्व को एत्थ मुक्खोत्ति । ता किं एदेण । अत्थमणाहिलासी भअवं सहस्सररसी । ता एहि अब्भन्तरं एव्व पविसह्म । ) राजा—( विलोक्य । ) अये परिणतप्रायो दिवसः । अहह । संप्रति हि— हृत्वा पद्मवनद्युतिं प्रियतमेवेयं दिनश्रीर्गता रागोऽस्मिन्मम चेतसीय सवितुर्बिम्बेऽधिकं लक्ष्यते । आबद्धेति । इदं कमलकाननं पद्मवनं व्यापन्नं मुकुलितं मुखं यस्य तत्तथाबद्ध- मुखमपि । कण्टकितं सञ्जातकण्टकं सरोमाञ्चं च सत् । तस्या आरण्यिकायाः यः सुकुमारः पाणिपल्लवः तस्य संस्पर्शन जातं सुखं कथयतीव । उत्प्रेक्षालंकारः । पथ्यार्यावृत्तम् ॥ ९ ॥ पुत्तलियां पाञ्चालिकाम् । अतिसंकटे इति सोच्छ्वासम् । अलीकपाण्डित्यं मिथ्यावैदग्ध्यं तेन दुर्विदग्धः साभिमानः पण्डितंमन्य इत्यर्थः । तस्य भावस्तत्ता तया । अस्तमयमभिलषतीत्यस्तमयाभिलाषी आसन्नस्तमय इत्यर्थः । हृत्वेति । इयं दिनश्रीः पद्मवनस्य कान्तिं शोभां हृत्वा प्रिया आरण्यिका इव गता । अस्मिन्पुरोदृश्यमाने सवितुर्बिम्बे मम चेतसि इव रागो रक्तिमा अनुरागश्च अधिकं १ अभ्युपायः २ मे दुर्वाक्यं ( मे मुखरत्वम् ) . ३ तदा भणितं.. विहस्य 'अयि... कटुवचनैः भर्त्स्य सम्प्रतं. ४ एहीतः. ५ दिवसकरः ( दिवसहरो ).