प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 62, कुल 184 में से
संदर्भ में पढ़ें३० प्रियदर्शिकायां वासवदत्ता—भगवति अहो ते कवित्वम्। येनैतद्गूढवृत्तान्तं नाटकापेनिबद्धं सानुभवमप्यस्माकमार्यपुत्रचरितमदृष्टपूर्वमिव दृश्यमानमधि- कतरं कौतूहलं वर्धयति। (भववदि अहो दे कवित्तणं। जेण एदं गूढवुत्तन्तं णाडओवणिबद्धं साणुभवं वि अम्हाणं अज्जउत्तचरिदं अदिट्ठपुव्वं विय दिसन्तं अहिय- ऽदरं कोदूहलं सङ्कढदि। ) साङ्कृत्यायनी—आयुष्मति आश्रयगुण एवायमीदृशो यद- सारमपि काव्यमवश्यमेव शृण्वतां श्रवणसुखमुत्पादयति। पश्य। प्रायो यत्किंचिदपि प्राप्नोत्युत्कर्षमाश्रयान्महतः। मत्तेभकुम्भतटगतमेति हि शृङ्गारतां भस्म ॥ १ ॥ वासवदत्ता—(सस्मितम्) भगवति सर्वस्य वल्लभो जामाता भवतीति ज्ञायत एवैतत्। तत्किमेतेन कथानुबन्धेन। वरं तदेव नर्ति- तव्यं द्रष्टुम्। (भववदि सव्वस्स वल्लहो जामादो होदित्ति जाणिअदि एव्व एदं। ता किं एदिणा कहाणुबन्धेण। वरं तं एव्व णच्चिदव्वं दट्ठुं।) साङ्कृत्यायनी—एवम्। इन्दीवरिके प्रेक्षागृहमादिश। चेटी—एतु एतु भट्टिनी। (एदु एदु भट्टिणी।) (सर्वाः परिक्रामन्ति।) साङ्कृत्यायनी—(विलोक्य।) अहो प्रेक्षणीयता प्रेक्षागृहस्य। आभाति रत्नशतशोभितशातकुम्भ- स्तम्भावसक्तपृथुमौक्तिकदामरम्यम्। अध्यासितं युवतिभिर्विजिताप्सरोभिः प्रेक्षागृहं सुरविमानसमानमेतत् ॥ २ ॥ कवित्वं काव्यनिर्माणनैपुण्यम्। गूढः वृत्तान्तो यस्य तत्। नाटकेऽपिनिबद्धं प्रयोगार्हं कृतम्। प्रेक्षागृहं नाट्यशाला। प्राय इति। यत्किंचिदपि सारं माहात्म्यरहितं वापि वस्तु महत आश्रयवत्सम्बन्धाद्वाप्याय उत्कर्षमोत्कृष्टय प्राप्नोति। अत्र दृष्टान्तमाह—भस्म असारत्वेन प्रसिद्धं मत्तेभस्य मदमत्तगजस्य कुम्भतटगतं यत् शृङ्गार- तां शृङ्गारं भूषणं गजमण्डनविशेषो वा तथां प्राप्नोति हि ध्रुवम् ॥ १ ॥ आभातीति। रत्नानां शतानि रत्नशतानि तैः शोभिताः शातकुम्भस्य सुवर्णस्य स्तम्भास्तेषु अवसक्तानि पृथूनि मौक्तिकदामानि मुक्तामालास्ते रम्यम्। विजिताः स्वस्वरूपान्निराकृता इत्यर्थः। अप्सरसो याभिस्ताभिः युवतिभिः अध्यासितमेतत्प्रेक्षागृहं सुरविमानसमानमाभाति। वसन्ततिलका वृत्तम्। लक्षणमुक्तम् ॥ २ ॥ १ वर्त्तति, २ एषः, ३ नाणिदं