प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 67, कुल 184 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । ३५ विदूषकः—एते खलु राजानो दास्येऽपि एवं नर्त्यन्ते । अहो कार्यस्य गुरुता । ( एदे खलु राणाओ दासीए वि एवं णच्चाविअन्ति । अहो कज्जस्स गरुअदा । ) राजा—( विहस्य । ) मूर्ख नैष कालः परिहासस्य । निभृतेन चित्रशालां प्रविश्य मनोरमया सहारमवृत्तं पश्यता स्थीयताम् । ( उभौ तथा कुरुतः । ) आरण्यिका—काञ्चनमाले तिष्ठतु वीणा । प्रक्ष्यामि तावत्किमपि । ( कञ्चणमाले चिट्ठदु वीणा । पुच्छिस्सं दाव किं वि । ) राजा—शृणोमि तावत्कतमोऽयमुद्देशो वर्तते । ( इत्यवहितः शृणोति । ) काञ्चनमाला—पृच्छतु भर्तृदारिका । ( पुच्छदु भट्टिदारिआ । ) आर०—सत्यमेव तातो मन्त्रयते एवं यथा—यदि वीणां वादयन्न- पहरति मां वत्सराजोऽवश्यं बन्धनान्मुञ्चामीति । ( सच्चं एव तादो मन्तेदि एव्वं जह जइ वीणं वादयन्तो अवहरेदि मं वच्छराओ अवस्सं बन्धणादो मुञ्चेमित्ति । ) राजा—( प्रविश्य पटाक्षेपेण सहर्षं वस्त्रान्ते ग्रथितं बध्नाति । ) एवमेतत् । कः संदेहः । सपरिजनं प्रद्योतं विस्मयमुपनीय वादयन्वीणाम् । वासवदत्तामपहरामि न चिरादेवेति पश्यामि ॥ ६ ॥ यतः सुसंविहितं सर्वं यौगन्धरायणेन । वासवदत्ता—( सहसोत्थाय । ) जयतु जयत्वार्यपुत्रः । ( जेदु जेदु अज्जउत्तो । ) राजा—( स्वगतम् । ) कथं प्रत्यभिज्ञातोऽस्मि देव्या । साङ्कृत्यायनी—( सस्मितम् । ) राजपुत्रि अलमलं संभ्रमेण । प्रेक्षणीयकमेतत् । ग्रथितं बध्नाति शुभशकुनं दृष्ट्वाऽभिमतासिद्धिसूचनार्थं वस्त्रपल्लवग्रन्थिबन्धनं लोकरीतिः । सपरिजनमिति । वीणां वादयन् मनोहारिणा वीणावादनेनेत्यर्थः । प्रद्योतं महासेनं सपरिजनं विस्मयमुपनीय प्रापय्य । वासवदत्तां न चिरादेवापहरामि अपहरिष्यामीति पश्यामि मन्ये । एतदुत्तरार्धं श्रुतलक्षणानुसारि नातिमनोहरं नेति व्यक्तम् ॥ ६ ॥ सुसंनिहितमिति पाठे सम्यक्सन्निधौ स्थापितम् । यौगन्धरायण उदयनस्य प्रधानामात्यः। १ दासीव्य ( दास्य इव ) । २ ग्रंथि. ३ ०ङ्गापहरणमपि; दन्ताहरण; परन्वापह. ४ सुसंनिहितं.