प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 74, कुल 184 में से
संदर्भ में पढ़ेंवासवदत्ता—एतं युष्माकं दुर्नयं प्रेक्ष्य हासो मे जायते । ( एदं तुह्माणं दुण्णयं पेक्खिअ हासो मे जाअदि । ) राजा—देवि अलमन्यथा विकल्पितेने । पश्य । भ्रूभङ्गैः क्रियते ललाटशशिनः कस्मात्कलङ्को वृथा वातोकम्पितबन्धुजीवसमतां नीतोऽधरः किं स्फुरन्। मध्याधिककम्पितस्तनभरेणायं पुनः खिद्यते कोपं मुञ्च तवैव चित्तहरणाद्यैतेन्मया क्रीडितम् ॥ १४ ॥ देवि प्रसीद प्रसीद । ( इति पादयोः पतति । ) वासवदत्ता—हन्ते निवृत्तं प्रेक्षणकम् । तदेहि । अभ्यन्तरमेव प्रविशावः । ( इति निष्क्रान्ता । ) ( हञ्जे णिवुत्तं पेक्खणअं । ता एहि । अब्भ- न्तरं एव्व पविसह्म । ) इति गर्भनाटकम् । राजा—( विलोक्य । ) कथमकृत्वैव प्रसादं गता देवी । स्वेद्दाम्भःकणभिन्नभीषणतरभ्रूभङ्गमेकं रुषा त्रासेनापरमुत्प्लुतोत्प्लुतदृगव्यालोलनेत्रोत्पलम् । उत्पश्यन्नहमग्रतो मुखमिदं वेष्याः प्रियायास्तथा भीतश्चोत्सुकमानसश्च महति क्षितोऽस्म्यहं संकटे ॥ १५ ॥ तद्यावदिदानीं शयनीयं गत्वा देव्याः प्रसादनोपायं चिन्तयामि । ( इति निष्क्रान्ताः सर्वे । ) इति तृतीयोऽङ्कः । अन्यथाविकल्पितेन अहमारभिकायामासक्त इत्यादिसंशयेन । भ्रूभङ्गैरिति । कस्मात्केन हेतुना ललाटमेव शशी तस्य भ्रूभङ्गैः कोपजनितभ्रूविकारैः वृथा व्यर्थ- मकारणमिति यावत् । कलङ्कः क्रियते । ललाटशशी मलिनीक्रियते इत्यर्थः । किं किमर्थं स्फुरन् कोपात्कम्पमानः अधरः वातेनाकम्पितं यद्बन्धुजीवकुसुमं तस्य समतां तुल्यतां नीतः । कस्मात्पुनः अयं मध्यः अधिकं सञ्जातकम्पितौ यौ स्तनौ तयोः भारेण खिद्यते खेदं प्राप्यते । कोपं मुञ्च यतो मया तव चित्तहरणाथैवैतत् क्रीडितम् । शार्दूलविक्रीडितं वृत्तम् ॥ १४ ॥ स्वेद्दाम्भः इति । रुषा क्रोधेन हेतुभूतेन उत्पन्ना ये स्वेद्दाम्भःकणा घर्मजलबिन्द- वस्तैः भिन्नं सिक्तं यत्सन् भीषणतरा अतिशयेन भीषणा तथा भ्रूभङ्गा यत्र तादृक् च इदं पुरोदृश्यमानं देव्या मुखमेकम् । त्रासेन भयेन उत्प्लुतोत्प्लुते वेगोद्गते धावन्त्यौ मृग- स्यास्येव व्यालोले अतिचपले नेत्रेऽञ्चले नेत्रकमले यस्य तादृक् प्रियाया आरण्यिकाया इदमपरं मुखमग्रत उत्पश्यन् विभावयन् अहं भीतश्च उत्सुकमानसश्च सन्महति संकटे क्षितोऽस्मि । शार्दूल० वृत्तम् ॥ १५ ॥ इति तृतीयोऽङ्कः । १ विकल्पनेन. २ अमूक्त. ३ देव्या. ४ पुनः ०श. ५ निष्क्रान्ताः संविमर्शो द्वितीयोऽङ्कः ६ मूयौ.