भारतकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 86, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 86

राजा— (सास्त्रम् ।) एषा मीलयतीदमीक्षणयुगं जाता ममान्धा दिशः कण्ठोऽस्याः प्रतिरुध्यते मम गिरो निर्यान्ति कृच्छ्रादिमाः । एतस्याः श्वसितं हृतं मम तनुर्निच्चेष्टतामागता मन्येऽस्या विषवेग एष हि परं सर्वं तु दुःखं मम ॥ ९ ॥ वासवदत्ता—(सास्रम्) प्रियदर्शने उत्तिष्ठोत्तिष्ठ । पश्यैष महाराजस्तिष्ठति । कथं वेदनाप्यस्या नष्टा । किमिदानीं मयापराद्धम- जानत्या येन कुपिता नाल्लपसि । तत्प्रसीद प्रसीद । उत्तिष्ठोत्तिष्ठ । न खलु पुनरपरात्स्यामि । (ऊर्ध्वमवलोक्य ।) हा दैवहतक । किमिदानीं मयापकृतं येनैतदवस्थां गता मे भगिन्योदर्शिता । (प्रियदर्शिकाया उपरि पतति ।) पिअदंसणे उट्ठेहि उट्ठेहि । पेक्ख एसो महाराओ चिट्ठइ । कहं वेदणा वि से णट्ठा । किं दाणिं मए अवरद्धं अजाणन्तीए जेण कुविदा णालवसि । ता पसीद पसीद । उट्ठेहि उट्ठेहि । ण हु पुणो अवरज्झिस्सं । हा देव्हदअ किं दाणिं मए अव- किदं जेण एदावत्थं गदा मे भइणी आदंसिदा ।) विदूषकः—भो वयस्य कथं त्वं मूढ इव तिष्ठसि । नैष विषा- दस्य कालः । विषमा खलु गतिर्विषस्य । तद्दर्शयात्मनो विद्याप्रभावम् । (भो वअस्स कहं तुमं मूढोविअ चिट्ठसि । ण एसो विसादस्स कालो । विसमा क्खु गई विसस्स । ता दंसेहि अप्पणो विज्जापहावं ।) राजा—सत्यमेवैतत् । (प्रियदर्शिकामवलोक्य ।) मूढ एवाहमैतावतीं वेलाम् । तदहमेनां जीवयामि । सलिलं सलिलम् । विदूषकः—(निष्क्रम्य पुनः प्रविश्य ।) भोः एतत्सलिलम् । (भो । एदं सलिलम् । (राज्ञोऽभ्युक्ष्य प्रियदर्शनाया उपरि हस्तं निधाय मन्त्रस्मरणं नाटयति । प्रियदर्शिका शनैरुत्तिष्ठति ।) वासवदत्ता—आर्यपुत्र दिष्ट्या प्रत्युज्जीविता मे भगिनी । (अज्जउत्त दिट्ठिआ पच्चुज्जीविदा मे भइणी ।) वसन्ततिलकं वृत्तम् ॥ ८ ॥ एषेति । एषा प्रियदर्शिका विगात्राम्या ईक्षणयुगं मीलयति । दिशो मम अन्धा जाताः । अस्या कण्ठः प्रतिरुध्यते स्तम्भो निरुध्यते इमा मम गिरः शब्दाः कृच्छ्रादिर्यान्ति । एतस्या श्वसितं हृतं मम तनुर्निच्चेष्टा निष्व्यापारा- मागता । अतः अस्या विषवेग एव मन्ये परं गरि तु दुःखं विषवेगजा पीडा मम । असङ्गतिरलंकारः । शार्दूल वृत्तम् ॥ ९ ॥ १ इत. २ मवि. ३ र्मा (म) नाल. ४ स्पर०. ५ भगिनीं जियदर्शना.