प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 88, कुल 184 में से
संदर्भ में पढ़ें५८ प्रियदर्शिकायां विदूषकः—भवति त्वं भगिनीं गृहीत्वा कण्ठे एवं परितुष्यसि ! वैद्यस्य पारितोषिकं विस्मृतम् । ( होदि तुमं भइणिं गेण्हिअ कण्ठे एवं परितु- स्ससि । वोदिअस्स पारिदोसिअं विसुमरिदं । ) वासवदत्ता—वसन्तक न विस्मृतम् । ( वसन्तअ ण विसुमरिदं । ) विदूषकः—( राजानं निर्दिश्य सस्मितम् । ) वैद्य प्रसारय हस्तम् । भगिन्या अग्रहस्तं ते पारितोषिकं दापयिष्यामि । ( बोदिअ पसारेहि हत्थं । भइणीए अग्गहत्थं दे पारिदोसिअं दाविस्सं । ) ( राजा हस्तं प्रसारयति । ) ( वासवदत्ता प्रियदर्शिकासहस्तमर्पयति । ) राजा—( हस्तमुपसंहृत्य । ) किमनया । संप्रत्येव कथमपि प्रसादितासि । वासवदत्ता—कस्त्वमग्रहीतुम् । प्रथममेव तातेनेयं दत्ता । ( को तुमं अग्गहिदुं । पुढमं एव्व तादेण इअं दिण्णा । ) विदूषकः—भो माननीया खलु देवी । मास्याः प्रतिकूलं कुरु । ( भो माणणीआ खलु देवी । मा से पडिऊलं करेहि । ) ( वासवदत्ता राज्ञो हस्तं बलादाकृष्य प्रियदर्शिकामर्पयति । ) राजा—( सस्मितम् । ) देवी प्रभवति । कुतोऽस्माकमन्यथा कर्तुं विभवः । वासवदत्ता—आर्यपुत्र अतोऽपि परं किं ते प्रियं क्रियताम् । ( अज्जउत्त अदो वि परं किं दे पिअं करीअदु । ) राजा—किमतःपरं प्रियम् । पश्य । निःशेषं दृढवर्मणा पुनरपि स्वं राज्यमध्यासितं त्वं कोपेन सुदूरमप्यपहृता सद्यः प्रसन्ना मम । जीवन्ती प्रियदर्शना च भगिनी भूयस्त्वया सङ्गता किं तत्स्यादपरं प्रियं प्रियतमे यत्साम्प्रतं प्रार्थ्यते ॥ ११ ॥ स्यादन्य सम्भिक्तासि । विभवः सामर्थ्यम् । निःशेषमिति । दृढवर्मणा पुनरपि निःशेषं स्वराज्यमध्यासितमधिष्ठितम् । कोपेन सुदूरमपहृता त्वमपि सद्यो मम प्रसन्ना । प्रियदर्शना भगिनी जीवन्ती सती त्वया भूयः पुनरपि सङ्गता । अतः हे प्रियतमे किं १ वेज्जस्स २ परिदोष्य. ३ ऽङ्ग स्यात्.