भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1017, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1017

तीन्नाकांक्षेदेवं न गन्धर्वान्न विद्याधरान्न सिद्धान्' इति । (७) बृहत्संहितायां च-- न देवानभिकांक्षेत कुत एव हरेर्गुणान् । ति वदन्तीत्युपस्कर्तव्यम् । ऋष्यादिपदाकांक्षायामेव कुत इत्यत स्तद्धेतुत्वेन तदुक्तमित्येतद्व्याचष्टे-तच्चोक्तमिति । न केवलं सूत्रे, किन्तु श्रुतौ चेदमुदितमिति चशब्दार्थः । आरम्भार्थोऽथशब्दः । 'य थर्षीन् ' आर्षान् तद्धर्मान् नाकांक्षेत, एवं ज्ञानार्थी 'प्रजापतीन् ' प्रा जापत्यान् 'गन्धर्वान् ' गान्धर्वान् 'विद्याधरान् ' वैद्याधरान् 'सिद्धा न्' सैद्धान् धर्मान् नाकांक्षेदित्यर्थः । इत्युक्तमित्यन्वयः । यद्यपि गन्ध र्वादिपदस्यानाकांक्ष्यत्वे ततोऽपि न्यूनमृषिपदं न दृष्टान्तीकर्तुं शक्यं, तत्रानाकांक्ष्यत्वानिश्चये ततो न्यूने सुतरां तदनिश्चयात्

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 1017, कुल 1267 में से · BharatKosha