पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1027, कुल 1267 में से
संदर्भ में पढ़ें९८० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] ते । तस्माद्गृहस्थस्यैवोत्तमत्वमिति न वाच्यम् । यतः कृत्स्नगृहस्थान् देवानपेक्ष्यैवोपसंहारः क्रियते । ( २ ) 'कृत्स्ना ह्येते गृहिणो देवाः कृत्स्ना ह्येते यतयोऽत एते- षां न पुत्रा दायमुपयन्ति न चैते गृहान्विसृजन्त्येरा- ति सौत्रपदं व्याख्यातं भवति । सूत्रे एकवचनं जात्यभिप्रायम् । 'अ- पेक्ष्य' विषयीकृत्येत्यनेन सूत्रे पञ्चमी ल्यब्लोपनिमित्तेत्युक्तं भवति । एवेति तुशब्दार्थोक्तिः । न तु मनुष्यगृहस्थानिति तदभिप्रायः । यतो देवाः कृत्स्नगृहस्थाः अतो योग्यत्वात्कृत्स्नगृहस्थान् देवानपेक्ष्योपसं- हारः क्रियते, न तु मनुष्यगृहस्थान् । यत एवमतो न तद्वलात् गृह- स्थस्यैवोत्तमत्वमिति वाच्यमिति योजना । तथा च मनुष्य