पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1029, कुल 1267 में से
संदर्भ में पढ़ें९८२ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ४.] देवा एव गृहस्था देवा एव वनस्था यथा ह्येते मुनय एवं सर्ववर्णाः सर्वाश्रमाः सर्वे ह्येते कर्म कुर्वन्ति' इति कौण्ठरव्यश्रुतौ यतित्वदृष्टान्तेन अन्येषामप्युपदे शात् ॥ ४८ ॥ —— ९. अधिकरणम् ॥ (१) सू- ॐ॥ अनाविष्कुर्वन्नन्वयात् ॥ ॐ ॥ ४९ ॥ 'एतां विद्यामधीत्य ब्रह्मदर्शी वाव भवति । स एतां म देवा एव ब्रह्मचारिण इत्याद्युक्तार्थस्य 'यथा ह्येतेमुनयः' इत्यादिनोपपा दनं क्रियते। अत्र 'यथा ह्येते' देवाः 'मुनयो' यतयः प्रसिद्धाः 'एवं' तथा सर्वाश्रमा इत्येवंशब्दस्य व्यवधानेनान्वये सर्वाश्रमा इति दार्ष्टा न्तिकोक्तिः। एवंशब्दस्य समुच्चयार्थत्वे न केवलं यतयः, किन्तु सर्व वर्णास्सर्वाश्रमाश्चेति स्वस्थानेऽन्वयः। सर्ववर्णास्सर्वाश्रमा इत्युभयत्र हेतुमाह—सर्वे हीति । 'हि' यतः सर्ववर्णाश्रमोचितं कर्म कुर्वन्ती त्यर्थः। मुनेर्भावः कर्म वा मौनमित्याशयेन मौनवदित्येतद्व्याचष्टे— यतित्वेति। कर्माप्युपलक्ष्यते। इतरेषामित्यस्य प्रतिपदं—यतित्वाद न्येषामिति। ब्रह्मचर्यादीनामित्यर्थः। 'उपदेशात्' उक्तत्वात् । अनेन देवानां 'मौनवदितरेषामप्युपदेशात्' मौनवद्यतित्ववदितरेषामप्या श्रमधर्माणां तेषु भावः सिद्धः, न त्वाश्रमद्वयकर्मित्वमेव तेषां, तथा च यदाऽऽश्रमद्वयकर्मित्वेनैव देवानां यतिभ्य उत्तमत्वं सिद्ध्यति तदा किमु वाच्यं सर्वाश्रमकर्मित्व इति सूत्रार्थ उक्तो भवति ॥ ८ ॥ ॥ इति कृत्स्नभावाधिकरणम् ॥ —— ९. अधिकरणम् ॥ (१) अत्राधिकरणे अपरोक्षज्ञानसङ्गतपरोक्षज्ञानस्यातिगोप्यत्व महिमा समर्थ्यते। सूत्रं पठति—अनाविष्कुर्वन्निति ॥ अत्र विषयोदा हरणपूर्वकमनाविष्कुर्वन्नित्यनेन सूचितं पूर्वपक्षं दर्शयति—एतामि ति। अत्रेत्थं योजना-यतः 'एताम्' इति माठरश्रुतौ विद्यादानं कर्तव्यं श्रूयते, तथा स्वाधिक्यानुसारेण फलप्रदं चोच्यते। अतो ज्ञानदात्रा स्वस्याधिकफलार्थं तदुपयोगितया 'बहूनां' शिष्याणां स्वीकारार्थं 'तत्' विद्यादानं 'आविष्कारेणैव' उच्चैः कार्यमिति। 'एतां' प्रकृ