पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1031, कुल 1267 में से
संदर्भ में पढ़ें९८४ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ४.] ब्रह्मणस्पते ब्रूहि तेभ्यः कदाचित्' (ऋ.२-२३-१६.) ॥ अथोपशमेनोपरता मनुष्याः ये धर्मिणो ब्रूहि तेभ्यः सदा नः । आदेवानामोहते विप्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥ (ऋ.२-२३-१६.) इति ॥ ति ज्ञानमेषामस्ति ते रामिणः तस्मान्निष्क्रान्ताः तस्य विमुखाः निरा- मिणः भगवदुत्तमत्वाज्ञानिनः, निरो निषेधार्थत्वात् निरामिणस्तदज्ञा- निनः प्रत्युत तस्य जीवरूपत्वज्ञानेन तन्नीचतावेत्तृत्वात्तद्विरोधिनः । यद्वा—रामो रमणमस्यास्तीति रामी भगवान् तस्मान्निष्क्रान्ताः तस्य विमुखाः निरामिणः, अत एव तस्य रिपवः 'अन्नेषु' अन्नादिषु भोगे- ष्वेव 'जागृधुः' आकांशां चक्रुः । आकांक्षावन्त इति यावत् । ते 'अ- भिद्रुहस्पदे' अभितो द्रोहस्य विष्णुवैष्णवद्रोहफलस्य नित्यनिरतिश- यदुःखस्यास्पदे आकरे तमसि स्थातुं योग्या भवन्तीति शेषः । यतोऽ- तस्तेभ्यः स्तेनेभ्योऽस्मान् मा वोचः न ह्यस्मच्छ्रवणवान् दुःखमर्ह- तीति भावः । एवमेषां एतद्वासुदेवाख्यं परं ब्रह्म न, अपरं तदपरं ज- गच्च नास्ति, किन्तु 'किञ्च' यत्किञ्चित् निर्गुणं ब्रह्म 'नैकं' एकविधभि- न्नं सदसद्विलक्षणं अनिर्वाच्यं च जगदभिमतं 'तेभ्यो' ब्रह्मस्तेनेभ्यो 'नः' अस्मान् मा ब्रूहि । अथ किं नाम ? हे 'बृहस्पते' 'वाग्घि बृहती' (छा.१-२-११.) इति श्रुतेः बृहत्या वाचः पते वायो ये 'शमेन' विष्णु- निष्ठया 'उप' समीपे तस्मिन्नेव 'रताः' मनुष्याः मननशीलाः 'धर्मिणो' निष्कामकर्मिणः ये च देवानां 'वयः' नपुंसकं पदमेतत् । वरं नियाम- कं च ब्रह्म हृदि वि आ ओहते व्योहते वहन्ति । सर्वत्र समत्वात् 'सा- म्नो' विष्णोः सकाशात् 'परः' परं उत्तमं च न विदुः तेभ्यो नः अ- स्मान् सदा ब्रूहीति । ऐतरेयभाष्ये तु 'तदेव' सामैव वासुदेवादिरू- पेण 'हृदा' स्वेच्छया 'ओहते' प्राप्नोति सर्वमिति ओहते इत्येतत् भ- गवद्विषयतया व्याख्यातम् । यद्यपि भाष्योदाहृतऋग्द्वये पूर्वोत्तरार्ध- योरेव पाठः सांव्यावहारिकः । तथाऽपि 'मा नस्स्तेनेति पूर्वासु ह्यूनता दृश्यतेऽर्थतः' इति ऋग्भाष्योक्तेः मध्यगतं 'येषां नैतत्, अथोपशमेन' इत्यर्धर्चद्वयमवान्तरवेदे अन्तर्हितं मूलवेदे पठितमिति ध्येयम् । इती- त्यस्य निषिद्धमित्यनेनान्वयः ॥