भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1085, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1085

१०३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] जिघ्रन्ति जिघ्रन्ति च यन्न पश्यन्ति पश्यन्ति च यन्न शृण्वन्ति शृण्वन्ति च यन्न जानन्ति जानन्ति च ' इति सौपर्णश्रुतेः किञ्चित्साम्योपपत्तेः ॥ ११ ॥ (८) सू— ॐ ॥ प्रतिषेधादिति चेन्न शारीरात् ॥ ॐ ॥ १२ ॥ 'असमो वा एष परो न हि कश्चिदेवं दृश्यते सर्वे ह्ये तेऽणवो जायन्ते च म्रियन्ते च छिद्रा ह्येते भवन्ति यत्वमादायासाधारण्यं युज्यत इति ध्येयम् । अनूष्मावद्दर्शयितुं प्रति जानीते-अथेति । आनन्तर्यार्थोऽयं शब्दः । उच्यत इति शेषः । प्रतिज्ञा तमाह—प्रकृतिश्चेति । 'प्रकृतिः' श्रीः 'प्राकृतं' ब्रह्मादि । प्राकृतं रु क्मिण्यादीति व्याख्यानं तु प्रकरणविरुद्धम् । चाद्यन्योन्यसमुच्चये । 'यत' यस्मात् 'यत' प्रकृतिप्राकृतम् । उभयरूपत्वोपपादनाय भा वाभावोक्तिः । चशब्दाः समुच्चये । सौपर्णश्रुतिश्चेति । न केवलं सा म्यतदभावान्यथानुपपत्तिरूपयुक्तिरिति चशब्दार्थः । अनेन सूत्रे ऊष्मा च ऊष्मावत्त्वप्रतिपादिका श्रुतिश्चेति चशब्दान्वयो दर्शितः । अस्येति पदे प्रातिपदिकार्थमाह—किञ्चित्साम्योपपत्तेरिति । देशका लव्याप्तिनित्यमुक्तत्वादिसाम्यस्योपपत्तेरर्थे भवतीत्यर्थः । किञ्चित्सा म्योपपादिका भवतीति यावत् । अतोऽप्यस्ति किञ्चित्साम्यमिति वा क्यशेषः ॥ (८) किञ्चित्साम्यमाक्षिप्य समादधत्सूत्रमुपन्यस्यति—प्रतिषेधा दिति ॥ अत्र पूर्वपक्षांशेन प्रकृतिपुरुषयोः किञ्चित्साम्यमिति साध्या ध्याहारमभिप्रेत्य प्रतिषेधक श्रुत्युदाहरणपूर्वकं पूर्वपक्षांशं व्याचष्टे— असमो वेति । वैशब्दोऽवधारणे । 'परः' परमात्मा 'असम एव' न तु केनापि प्रकारेण सम इत्यर्थः । कुत इत्यत आह—न हीति । 'हि' यतो लोके कश्चित्पुरुषः 'एवं' परमात्मवत् न दृश्यते अत इत्यर्थः । असाम्यमेव विरुद्धधर्मोक्त्योपपादयति--सर्वे इति । 'एते' जीवाः 'अणवः' अपूर्णाः 'छिद्राः' दोषिणः । दोषमेव लेशतो दर्शयति—दे हतो जायन्ते नश्यन्ति चेति । 'परः' परमात्मा तु देहतोऽपि न जाय ते न म्रियते पूर्णः सर्वगतो निर्दोष इति चशब्दार्थः । तत्त्वप्रदीपे तु अ णुत्वप्रतियोगिभूतं सर्वगतत्वं चशब्दार्थः छिद्रत्वमपूर्णत्वमित्युक्तम् । साम्येत्यतः प्राक् 'अथ परः' इत्यादिना परमेश्वरस्यैव नित्यसर्वगत त्वादिकमुक्त्वा 'सर्वे ह्येतेऽणवः' इत्यादिनाऽन्येषां तदभावमुक्त्वा