पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 110, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ४. सू - ४. ] दीपिकासहितम्. ६३ ( ३ ) उक्तं च बृहत्संहितायाम्— चोपक्रमादीनां क्वचिदविरोधं सूचयति । आदिपदं श्रुतिलिङ्गवाक्य- प्रकरणस्थानसमाख्यानामपि ग्राहकम् । अत्र श्रुत्यादिषट्कं च ग्राह्य- मिति टीकोक्तेः । अत्र वाक्ये श्रुत्यादिषट्कमप्यादिपदेन ग्राह्यमिति हि तस्यार्थः । परन्तु श्रुत्यादीनामुपक्रमादिवत्तात्पर्यग्राहकत्वाभावादा- गमार्थमात्रनिर्णायकत्वात् नात्र तन्निदर्शकप्रमाणोक्तिः । अत एवो- त्तरत्र— श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा । स्थानं पूर्वे बलीयः स्यादेवमागमनिर्णये ॥ इति तत्रापि प्रमाणं वक्ष्यति । उक्तं हि प्रमाणलक्षणटीकायाम् “ उपक्र- मादीनां तात्पर्यलिङ्गत्वमेतेषां पुनरर्थ एवेति विशेषज्ञापनार्थो योगवि- भागः ” इति । न चैवं “ अत्र श्रुत्यादिषट्कं च ग्राह्यं ” इति टीकायां तात्पर्यग्राहकेष्वन्तर्भावोक्तिरयुक्तेति वाच्यम्, यतोऽत्रेत्यस्य समन्व- यशब्दार्थ इत्येवार्थो न तात्पर्यग्राहकेष्विति, ‘ आकाशस्तल्लिङ्गात् ’ ‘ शब्दादेव प्रमितः ’ ( ब्र.सू.१-१-२२,४-२४. ) इत्यादौ श्रुतिलिङ्गादि- भिरागमार्थनिर्णयदर्शनेन तेषामपि अन्वीयते शक्तिरूपसम्बन्धवत्तया ज्ञायते पदजातमेभिरितिव्युत्पत्त्या अन्वयशब्दार्थत्वौचित्यात् । न चो- पक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्तयः श्रुतिलिङ्गवाक्यप्रक- रणस्थानसमाख्याश्च तात्पर्यलिङ्गानीति ज्ञानपादीयसुधाविरोध इति वाच्यम्, अत्र शक्तेरपि संयोजनात् । अत एव चन्द्रिकायामुपक्रमादि- प्रमाणकः शक्तितत्पर्यलक्षणस्सम्बन्धः समन्वय इत्युक्तम् । अत्रादिप- दं श्रुत्यादीनामपि ग्राहकम् । व्युत्क्रमेणान्वयः । अनेनात्र बृहत्संहिता- वचनोदाहरणं वक्ष्यमाणस्य श्रुतिर्लिङ्गमिति वचनस्योपलक्षककमिति सूचितम् ॥ ( ३ ) कानि तान्युपपत्त्यादीनि कुत्र च लिङ्गानीत्यत आह—उक्तं चेति ॥ उपपत्त्यादीत्यनुषज्यते । न केवलमुपपत्त्याद्युक्तं निर्दिष्टं, किन्तु तज्ज्ञाप्यं चोक्तमिति चार्थः । अस्मदुक्तमुपपत्त्यादि लिङ्गं बृहत्संहिता- यामप्युक्तमिति वा । किमुक्तमित्यतस्तत्पठति—उपक्रमेति । प्रकरणा- दिरुपक्रमः तदन्त उपसंहारः । उपक्रमोपसंहारश्च तौ तथोक्तौ । अत्रोपक्रमोपसंहारतदैक रूप्याभ्यासापूर्वताफलार्थवादाश्चेति प्रमाण