पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1120, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - २. सू - २. ] दीपिकासहितम्. १०७३ न्धस्सन्ननन्धो भवति’ (छा. ८-४-२.) इति च । त- त्र तरणं नाम तत्प्राप्तयेऽन्यतरणमेव । ‘इमां घोराम- शिवां नदीं तीर्त्वैतं सेतुमाप्यैतेनैव सेतुना मोदते प्रमो- दत आनन्दी भवति' इति मौद्गल्यश्रुतेः ॥ १ ॥ -- २. अधिकरणम् ॥ ( १ ) सू-ॐ ॥ मुक्तः प्रतिज्ञानात् ॥ ॐ ॥ २ ॥ मुक्त एवात्रोच्यते । ‘अहरहरेनमनुप्रविशत्युपसङ्क- इत्यन्वयः । खल्वर्थे वा नामशब्दः । अनेन न केवलं परमात्मा, किन्तु तस्मादपहतपाप्मन आत्मनस्तत्प्रसादात्पूर्वं संसृतौ बद्धस्सन् अवि- द्यावृतः सन् यस्तदन्यो जीवः सोऽपि ‘एतं सेतुं’ जगदाश्रयं हरिं ग- न्तुं अन्यदविद्यादिकं तीर्त्वा ‘अनन्धः’ अदोषवान् भवतीति छन्दोग- श्रुत्यर्थ उक्तो भवति । कुत इत्यत आह--इमामिति । यत इति शेषः । अस्य तत्रेत्यादिनाऽन्वयः । ‘अशिवां’ अमङ्गलां दुःखकरत्वाद्घोरां भ- वाख्यनदीं तीर्त्वा ‘सेतुं’ विश्वाश्रयमेतं परमात्मानं प्राप्यैतेन सेतुनै- व सह तमविहायैव ‘मोदते’ अप्रकृष्टविषयोत्थं सुखमाप्नोति ‘प्रमो- दते’ प्रकृष्टविषयोत्थं सुखमाप्नोति ‘आनन्दी’ स्वरूपसुखाभिव्यक्ति- मान् भवतीति श्रुत्यर्थः। मोदते इत्यादिवाक्यशेषो विषयभोगे प्रमाणत्वे- नोक्तः । त्रिगृहीतस्य श्रुतिरित्यस्य सौत्रशब्दपदोकेत्यध्याहृतेनान्वयः। न चैवं टीकाविरोधः । विशेषाकारस्य सूत्रांशसूचितत्वात् । शब्दादि- त्यस्यापि सूत्रांशत्वाच्च ॥ १ ॥ ॥ इति संपद्याधिकरणम् ॥ -- २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्म प्राप्य तदविहायैव भोगभोक्तुर्मुक्तत्वं सा- ध्यते । ‘स तत्र पर्येति' इति श्रुत्युक्तोऽमुक्त एवेति पूर्वपक्षे सिद्धान्त- यत्सूत्रं पठति--मुक्त इति ॥ अत्र मुक्त इति प्रतिज्ञांशं सावधारणं कृ- त्वा व्याचष्टे--मुक्त इति । नामुक्त इत्येवकारार्थः । अत्रोच्यत इति शेषोक्तिः । ‘अत्र’ सूत्रेनेति गृहीते ‘स तत्र पर्येति' इति वाक्य इत्य- र्थः । कुत इत्यस्यापीदमेवोत्तरम् । अत्र मुक्त इति सप्तमी । उपपन्नो १३५