भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1136, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1136

[ अधि - ८. सू - १५. ] दीपिकासहितम्. १०८९ (७) सू - ॐ ॥ प्रदीपवदावेशस्तथा हि दर्शयति ॥ ॐ ॥ १५ ॥ शरीरमनुविश्यापि तत्प्रकाशयन्तः पुण्यानेव भोगान नुभवन्ति न तु दुःखादीन् । यथा प्रदीपो दीपिकादि षु प्रविष्टः तत्स्थं तैलाद्येव भुङ्क्ते न तु काष्र्ण्यादि । ' तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति ' त्करोतीत्यर्थ इति । अत्र स्वरूपदेहस्य महत्त्वं च स्वस्वचरमशरीरसम त्वेन तूलपिण्डवत् प्रचय एव । न च प्रचयशब्दितविकाराङ्गीकारे ऽनित्यत्वापत्तिः । ईश्वरशक्त्या तद्भावोपपत्तेः । उक्तं हि गीताभा ष्ये 'शरीरं जायते तेषाम्' इति द्वितीयाध्यायव्याख्यानावसरे । प्रमे यदीपे तु विकारित्वाद्धिनाशः स्यादित्यत उक्तं-ईश्वरशक्त्येतीति ॥ (७) ननु देहसद्भावे भोगोपपत्तावपि दुःखमप्यापद्यते एवेत्युक्त मेवेत्याशङ्कां परिहरत्सूत्रं पठति—प्रदीपवदिति ॥ अत्र मुक्तानामिति प्रकरणाल्लभ्यते । प्रदीपवदिति षष्ठ्यन्ताद्वतिः । आवेशः प्रवेशः । स्व कीयत्वज्ञानरूपाभिमानः । तथा च 'अपि' यद्यपि मुक्तानां 'आवेशः' शुद्धप्रकृतिमयज्योतिरूपसुखैकायतनबाह्यदेहप्रवेशः तदभिमानोऽस्ति तथापि न ते दुःखादीननुभवन्ति किंतु साधूनेव प्रदीपवदिति सद्द ष्टान्तं प्रतिज्ञावाक्यस्य अर्थमभिप्रेत्याह—शरीरमिति । शुद्धप्रकृतिम यज्योतिरूपशरीरमित्यर्थः । समुदायेकवचनमेतत् । 'अनुप्रविश्य' इच्छानुसारेण प्रविश्य तदभिमानिनो भूत्वा । तत्कार्यमाह-तदिति । 'पुण्यान्' तत्साध्यान् साधून् 'भोगान्' भाग्यान् । पुण्यानित्यनेनाग्नि होत्रादित्यत्र ज्ञानोत्तरपुण्यभाजो यद्भोगबाहुल्यमुक्तं तत्सूचयतीत्यु क्तं तत्त्वप्रदीपे । मुक्ताः न तु दुःखादीननुभवन्ति, किन्तु पुण्यानेवेति यो जना । न पापसाध्यानसाधून् दुःखादीनित्येवार्थः । आदिशब्देनासह्मा विषया गृह्यन्ते । 'तत्स्थं' दीपिकास्यितं 'भुङ्क्ते' गृह्णाति । द्वितीया न्तप्रथमादिशब्देन घृताद्युच्यते द्वितीयेन धूल्यादिकम् । तुरप्यर्थः । 'काष्र्ण्यादीन्' मालिन्यादीनपीति । भुङ्क्ते इत्यनुषज्यते । तथेति शे षः । तथेत्यन्तं भाष्यं शरीरमित्यादेः प्राक् संयोज्यम् । 'तत्' शरीरं प्रकाशयन्तः चित्स्वरूपादिविवेचयन्तः आत्मज्योतिषा प्रकाशयन्तो वा इत्यनेन प्रदीपवदिति प्रदीपदृष्टान्ते वक्तुः सूत्रकारस्य यथा प्रदीपो दीपिकां प्रकाशयन् तत्स्थं तैलाद्येव भुङ्क्ते, न प्रकाशविरोधीन् का १३७